SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ विशेषाव: कोट्याचार्य वृत्ती युगपदुपयोगनिरासः ॥८८०॥ ॥८८०॥ भयोवयोगित्तं, काममेतत् , उपालम्भमाह-'से' तस्य देशतः पुनरुभयोपयोगः किं प्रतिषिध्यते ?, यदि सत्यमुभयावरणक्षये समकमुभयोपयोगो भवति, न च तन्नूनं, किं तेऽप्ययमेव न्यायः इति । कदाचिद् युगपद्वादी क्रमवादिनमतिशयेन ब्रूयाद् अतस्तन्मतमाविष्कृत्य तस्याप्यनिष्टापत्तिप्रसङ्गमाह-'अहे त्यादि ॥ अथ मन्येथाः स मद्विवक्षितः केवली यस्मिन् ज्ञानेदर्शने वा नोपयुक्तस्तन्नास्ति | तदानीमनुपलभ्यमानत्वात् खरविषाणवदिति, उच्यते-यद्येवं 'तो' ततः दर्शनादित्रये न कस्यचिद् युगपदुपयोगः अतः कथं तैर्विक| लस्ते साधुरिति ॥ अपिच-यदि यत्रानुपयुक्तस्तदसत् ततः-'ठिती' त्यादि ॥ ज्ञानानां-मतिश्रुतावध्यादीनां यः स्थितिकालः षट्पष्टिकालादिसज्ञितस्तस्य विसंवादः स्यात् , नापि च ते एवं कश्चित् छद्मस्थश्चतुर्ज्ञान्यस्ति एकज्ञानोपयोगत्वात् , न य तिदसणो ५ नाम छउमत्थो ते, उक्तश्च सिद्धान्त इति तस्मात्क्रमोपयोग एव श्रेयानिति ॥ अथ युगपदुपयोगवादी किल सिद्धान्तमादायाह-'आह भणित'मित्यादि ॥ आह-ननु भणितं 'श्रुते' श्रुतैकदेशे 'केवलिणो केवलोवयोगेण पढमा नो अपढमा' तथाहि-यो येन भावेन पूर्व | नासीदिदानी च जातः स तेन भावेन प्रथमः, तत्परिणामस्य प्रस्थापकत्वात् , समासश्च केवलयोनिदर्शनयोरुपयोगः केवलोपयोगस्तेन प्रथमाः, नापान्तराले ध्वंसतस्ते, अव्यवधानभाज इति भावना, तेन कारणेन प्रथमप्रवृत्तेः 'गम्यते'अनुमीयते 'सदा' साद्यपर्यवसितं कालं 'उपयोगोभयं उपयोगद्वयं 'तेषां सिद्धानामिति ॥ अथैतत् सातिरेकेण गाथाशकलेनानुभाषति तावत्-'उव'इत्यादि ॥ | जाव 'जइ'त्ति यदीह काले उपयोगग्रहणात्सकाशात् केवलज्ञानदर्शनग्रहणमभिप्रेतं भवतः, अस्य दूषणमाह-ततः सूत्रे 'केवलिणो | | इत्यादि, अत्र तयोः-ज्ञानदर्शनयोस्तस्मात्-उपयोगादनान्तरता स्यात् । चोदक आह-यदि नामैवं ततः को दोषः १, आचार्य आह'तग्ग'इत्यादि । तयोरनर्थान्तरत्वेन ग्रहणं तद्ग्रहणं तस्मिंस्तद्ग्रहणे किमिह फलं भवतः, ननु स्थानेर तयोर्मेद उक्तः 'उवउत्ता CARRORA
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy