SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ||८७८ ॥ उपयोगौ, किन्तु कस्यचित्, एतदुक्तं भवति - कस्यचिद् द्वौ कस्यचिदेक एवेति, आह- 'अहे' त्यादि ॥ अह न सव्वस्स केवलिस्स दो उपयोगा, किंतु काक्वा कासर हवेज, कस्यचिच्वेक एव, स च केवली जिनो भवस्थकेवली स्यात् सिद्धो वेति, द्विगतिकत्वात्केवलिनः, अत्रोच्यते- 'तं चे' त्यादि तच्च निर्युक्तिगाथापश्रार्द्धद्वितीयव्याख्यानं न घटां प्राञ्चति, कुतः इत्याह- तस्य सिद्धाधिकारात्, एतदुक्तं भवति-न सिद्धानामेवं होढो दातुं न्याय्यो यदुत एकस्य द्वावपरस्य चैक इति, तस्मात्पचाद्धे मद्व्याख्यानमेव श्रेयः ॥ तदेवं निर्युक्तिगाथां विषयविभागे व्यवस्थाप्य स्वार्थमेव पुष्णन्निदमाह सूरि : - ' अहवे' त्यादि । अथवा पूर्वार्द्धनैव 'नाणंमि दंसणंमि य एतो एगतरंमि उवउत्ता' इत्यनेन एकोपयोगः सिद्ध इति तस्मात्किमत्र द्वितीयेन पश्चार्थोक्तेन ?, उक्तञ्च श्रीमद्भद्रबाहुस्वामिना, अतः 'एत्तोचिय'त्ति अस्मादपि कारणात् पश्चाद्वैऽपि - 'सव्वस्से' त्यादिलक्षणे सर्वप्रतिषेधो गम्यते - अनुमीयते, यथा सर्वस्य केवलिनोऽपि द्वावुपयोगौ न स्तः, किमुताकेवलिनामिति । अथैवं निरुत्तरीकृत आत्मीयमप्यास्पदबन्धमुन्मूलयन् पर आह'तो किहे 'त्यादि । तो किथ 'असरीरा जीवघणा उवउत्ता दंसणे य नाणे य'त्ति उक्तं, सिद्धान्तवाद्याह- 'समुदायवचनमेतत्' समुदायविषयमेतत्, अनन्तानां केचन ज्ञाने केचन तु दर्शने विषमसमयसिद्धत्वात्, प्रत्येकविवक्षायां तूभयनिषेधः, अन्यदा ज्ञाने उपयुक्तोऽन्यदा च दर्शन इति । आह परो- नाभिप्रायं वेत्सि त्वं, तथाहि - 'जम' इत्यादि । 'यत्' यस्माद केवलज्ञानदर्शने सत्यपर्यन्ते तेन कारणेनोभयोपयोगः, इतिशब्द उपप्रदर्शनार्थः तथाहि - उभयोरप्यनयोर्द्वाराप्रवृत्याऽव्यवच्छेदः अपर्यवसितत्वेनोक्तत्वात्सि|द्धत्ववत् ॥ अथैतदपि प्रज्ञाधनो विषयविभागे व्यवस्थापयन् सार्द्धा गाथामाह सूरिः - 'भण्णती' त्यादि 'ठिती' त्यादि, भण्यते| उच्यये- 'नायं नियमो' नायं नियोगः 'संत'त्ति यत् सदस्ति लब्धिभावेन 'तेन' तस्मात् 'उपयोगो'ति तेनोपयोगेन समकं युगपदुपयोगनिरासः ॥ ८७८ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy