________________
विशेषाव कोट्याचार्य वृत्तौ
॥८६३॥
त्वात् । चोदक एवाह - 'कह वे'त्यादि ॥ कथं वा स केवली वेदनीयनामगोत्रत्रयमपूर्णस्थिति 'क्षपयतु' ह्रस्वीकरोतु ? आयुष्कानुरोधेन कृतनाशप्रसङ्गात्, कृतनाशश्वाधिकखण्डनात्, कुतो वा तस्य आयुवस्तैः सह समीकरणं १, अकृताभ्यागमप्रसङ्गात्, अकृताभ्यागमप्रसङ्गश्च न्यून संवर्द्धनात्, अत एवाह- कृतनाशादिभयात्, तो तस्स केवलिनः क्रमेण तत्क्षयो युक्तः, पूर्वमायुषः पचादितरेषामिति पूर्वपक्ष: ॥ अथेदानीं परमतमेवाङ्गीकृत्य दुषणमाह-' भण्णती' त्यादि । उक्तेन प्रकारेण कर्मक्षय इष्यमाणे भवोपग्राहि कर्मचतुष्टयस्य यद्यायुरादावेव तस्य निष्ठां यायात् ततः स कथमास्तां 'भवे' संसारे १, आयुवोऽनुपात्तत्वात् सिध्यति चेदाह - सिध्यतां वाऽसौ कथं ?, सकर्माशत्वात् ॥ अथेदानीं सिद्धान्तस्थितिप्रदर्शनेन परप्रयुक्तसकलदूषणपरिहारार्थं गाथात्रयमाह - ' तम्हा' इत्यादि । 'जस्से'त्यादि ॥ 'कत' इत्यादि ॥ प्रथमा सुप्रसिद्धत्वात्सुगमा, द्वितीयाऽपि सुगमा, नवरं शेषं त्रयं सुबहु पूर्वोपात्तयोरपि ग्रहणा, उक्तश्च“नामगोत्रयोविंशतिः सागरोपमकोटाकोटथः, इतरस्य तु त्रिंशत्, आयुष्कस्य तु त्रयस्त्रिंशत्सागरोपममात्रमुत्कृष्टतोऽपि " कृतनाशाकृताभ्यागमदोपविघातश्च पुरा - पूर्वं कृतोऽस्माभिर्भस्मकव्याधिमदुदाहरणात् नेह प्रतन्यते । तथा यथा च ज्ञानक्रियाभ्यां कर्मणः क्षयः क्रियते तथाऽप्युक्तं, न चेदेवं ततोऽमोक्षादयो दोषाः स्युरित्यतो 'णाऊणे' त्यादि गाथाऽर्थतो व्याख्याता । आह'अस' इत्यादि । वेदनीयायुषोरसमस्थितित्वे को नियमो यदुत थोवं आउयं, न सेसं वेदनीयादि, येनैवं नोच्यते- 'नाऊण आउयं अति बहुय' मित्येवमादि, उच्यते, परिणामस्वभावात्, तथाहि - इत्थंभूत एव परिणामो येनायुर्वेदनीयादेः समं वा भवति न्यूनं वा, न तु वेदनीयादि ततो न्यूनं, कोऽत्र दृष्टान्तः १ इत्याह-यथा तस्यैवायुषः स खल्वध्रुवबन्धः परिणामस्वाभाव्यात् ॥ अथेदानीं समुद्घातविधिमाह - 'विसम' मित्यादि ॥ 'स समोहतो' स केवली समुद्घातं गच्छन् विषमं समुद्धाति कर्मचतुष्टयं शेषं 'समं करोति' तुल्यं
कर्मसमी
करणं
॥८६३॥