________________
विशेषाव० कोव्याचार्य
वृत्ती ॥८६०॥
SAALA
मनोयोगवाग्योगकाययोगनिरोधे सति शैलेश्युच्यते, ततः कखगघडोच्चारणकालप्रमाणशैलेश्यवस्थोत्तरकालं सिध्यति, अनन्तरगाथो
समुद्घातपन्यस्तसमुद्घातमात्रापेक्षः सम्बन्धः ॥ आह-समुद्घातगतानां विशिष्टकर्मक्षयो भवतीति कात्रोपपत्तिरिति, उच्यते, प्रयत्नविशेषः, विचार: | किं निदर्शनमित्यत आह–'जहे त्यादि ॥ यथेत्युदाहरणोपन्यासः आर्द्रा शाटिका, जलेनेति गम्यते, आशु-अवाय 'शुष्यति' शोषमुपयाति 'विरेल्लिता' विस्तारिता सती-भवन्तीति, तथाऽत्रापि प्रयत्नविशेषात्कर्मोदकमधिकृत्य जीवपटः शुष्यतीति शेषः,
3॥८६०॥ यतश्चैवमतः कर्मलघुतासमये वेदनीयप्राभूत्ये सत्यायुषः स्तोककाले अन्तर्मुहूर्तमात्रे आयुषि तिष्ठति सतीति भावना, किमत आह'व्रजन्ति' गच्छन्ति 'जिनाः' केवलिनः 'समुद्घातं' प्राग्निरूपितशब्दार्थमिति, अथवा कर्मभिलघुता, कस्य ?-जीवस्य, तस्याः समय:-कालस्तस्मिन् । 'संताणओ' इत्याद्यर्थपदगाथा ॥ 'सो' इत्यादि गाथाई समासः, अथवा दीहकालरंजणं रयोऽनुभव इति चेष्टाविशेषार्थ, 'दीहकालरय' मिति व्याख्यातम् ॥ 'ज' मित्यादि ॥ 'जं कम्मति यदेवंविधं कर्म 'तुः' भावितार्थः अथवा पूरणार्थः, भव्यकर्मणः प्रक्रमावसीयमानत्वात् । 'अहवे त्यादि । अथवा जन्तुरिति जीवः तस्स जन्तोः कम्मं से जंति ततश्च से तस्य जन्तोर्यकर्म 'सितं'ति मूलग्रन्थः, अस्य व्याख्याबद्धं 'अधवे' त्यादि, सेति एकादशमक्षरं, ततश्च 'से' तस्य जन्तोः दीर्घकालरयं| कर्म 'सितंति मूलग्रन्थस्य द्वादशत्रयोदशे अक्षरे सन्धावकारमुत्प्रेक्ष्य व्याख्यानमाह-असितं कृष्णलेश्यापरिणामवशेनान्धकारत्वात, अथवा न सन्धावकारः, किं तर्हि १, सितमेवेत्यस्यान्यथा व्याख्यामाह भाष्यकार:-'सितं'ति 'षिङ् बन्धने' इति, ततश्च गृहीतं व्याप्त च । अथवा 'दीहकालरयं जन्तुकम्म सेसिय'ति 'श्लिष श्लेषण' इति श्लषितं, अत एव भाष्यकारः 'अतिसंसिलिटुं वा जंवा इत्यादि,8 यद्वा अथवेत्यर्थः 'दीहकालरयं जन्तुकम्म सेसियमहह'त्ति 'शिष असर्वोपयोग' इति, अष्टधा भिन्नमष्टप्रकारमितियावत्, पर्यन्ते सन्धिः