SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचाय समुद्घातविचार: वृत्ती ॥८५९॥ ॥८५९॥ कर्म जन्तुकर्म, तदनेन समासपदेनाबद्धकर्मव्यवच्छेदमाह, तच्च 'से' अस्य जन्तोरसितमिति कृष्णमशुभमतिसंसारानुबन्धित्वाद्, एवं विधस्य च क्षयः श्रेयानिति, न तु शुभस्य, स्वरूपस्येवेति भावना । 'अट्ठधा सिय' मित्यादि पूर्ववदेव, प्रथमव्याख्यापक्षमधिकृत्य सम्बन्धः, आह-तत्कर्म शेषं तस्य समस्थिति वा स्यादसमस्थिति वा ?, न तावत्समस्थिति, विषमनिबन्धनत्वात् , नाप्यसमस्थिति चरमसमये युगपत्क्षयासम्भवादिति, एतदयुक्तं, उभयथाऽप्यदोषात् , तथाहि-विषमनिवन्धनत्वे सत्यपि विचित्रक्षयसंभवात् कालतः समस्थितित्वाविरोध एव, चरमपक्षेऽपि समुद्घातगमनेन समस्थितिकरणभावाददोषः, न चैतत्वमनीषिकयोच्यत इति, आह च'नाऊणे' त्यादि ॥ ज्ञात्वा' केवलेनावगम्य 'वेदनीय' वेदनीयकर्म 'अतिबहु' शेषभवोपग्राहिकर्मत्रयापेक्षयातिभूरि तथा आयुष्कं च भवस्थितिहेतुः 'अतिस्तोकं' अतिस्वल्पं, ज्ञात्वेति वर्तते, अत्रान्तरे स केवली 'गन्तूण' यात्वा, के ?-'समुद्घातं' सम्यक्-अपुनर्भावेन उत्-प्राबल्येन घातो विनाश इति समुद्घातः, कर्मवशादित्यर्थः तं, किं करोतीत्यत आह-क्षपयति कर्म निरवशेष, शैलेश्यवस्थाक्षपणाधिकमिति वाक्यशेषः, अस्य च कखगघडकाललक्षणत्वेनाविवक्षितत्वात् निखशेषमित्युक्तं, आह-कस्मादसावतिबहुवेदनीयं जानाति आयुष्कं तु स्तोकं जानाति येनोच्यते-'णाऊण वेयणिज्ज'मित्यादि, ननु विपर्ययोऽप्यस्तु, उच्यते, वेदनीयस्य सर्वकर्मभ्यो बन्धकालबहुत्वात् फलकालपाभूत्यं केवलिनोऽपि तद्वन्धकत्वाद्, आयुष्कस्य त्वल्पबन्धकालत्वादुभयोरपि ज्ञापकं 'जाव णं अयं जीवे एयति जाव णो उण अबन्धए' पज्यास्तु व्याचक्षते-'नाऊण वेयणिज' मित्येवमादि ॥ अथ समुद्घातादिविधिप्रतिपादनार्थमाह-'दण्डे' त्यादि प्रसिद्ध, 'भास'त्ति उपरतसमुद्घातः एकव्याकरणादि कुर्यात् , अनेनैतदाह-व्यापारान्तर| मपि कुर्याद्, अत एवोक्तमुपरतसमुद्घातो वा पच्चप्पिणेजा, अथवा 'भासाजोगनिरोह सेलेसित्ति मध्यग्रहणमेतत्, ततश्च-शक्तिरूप
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy