SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ समुद्घात| विचारः विशेषाव कोट्याचार्य वृत्ती ॥८५८॥ ॥८८ ROEARCHASE भण्यते, ततश्च समानाधिकरणः, यच्छब्द उद्देशवचनः सर्वनामत्वात्, ततश्च 'जं कम्मति यत्कमैवंविधं, तुरिति भव्यकर्मविशेषणार्थः, अभव्यकर्मणः सर्वथा ध्मातत्वासम्भवात्, 'सेसियंति शेषं कृतं शेषितं, किमुक्तं भवति ?-स्थित्यादिभिः प्रभूतं सत् स्थितिसंख्यानुभावापेक्षयेवाना(मेवा)भोगतः सद्दर्शनज्ञानचरणाद्युपायतः शेष-अल्पं कृतमित्यर्थः, प्राक्किभृतं सत् पश्चाच्छेषितमित्यत आह-'अट्टहा सियंति 'अष्टधा' अष्टप्रकारं ज्ञानावरणादिभेदेन सितं-बद्धं यत्तदोनित्याभिसम्बन्धात् तं कम्म सेसियं अट्टहा सियं धंतन्ति, ध्माशब्दाग्निसंयोगयोरितिवचनाद् ध्यानानलेन दग्धं महाग्निना लोहमलवदस्येति सिद्धः 'इति'त्ति 'इति' एवं कर्मदहनानन्तरं सिद्धस्यैव सतः किमित्यत आह-सिद्धत्वमुपजायते, नासिद्धस्य, 'भव्यजीवो न सिद्धयतीति वचनात, उपजायत इत्यपि, तदात्मनः सतः स्वाभाविकमेव सत्तदाविर्भवतीति, यत्तच्यते-उपजायत इति तल्लोकिकवाचोयुक्तया, व्यवहारेणेत्यर्थः, अथवा सिद्धस्य सिद्धत्वमुपजायत इति कोऽर्थः ?, सिद्धस्य सिद्धत्वमुपजायते भावरूपं भवति, न तु विध्यातपदीपोपमं तस्य तदिति व्यवच्छेदार्थोऽयमित्यर्थः, | यदाहुरेके 'दीपो यथे'त्यादि, 'जीवस्तथेत्यादि, एवंविधसिद्धत्वभावे च दीक्षाप्रयासवैयय, तन्निरन्वयक्षणभङ्गस्य चायुज्यमानत्वात् | प्रदीपदृष्टान्तस्याप्यसिद्धत्वात् , असिद्धत्वं च भास्वरपुद्गलानां तामसभावपरिणतेरिति, अथवा रयो-वेगश्चेष्टा अनुभवः फलमित्यनर्थान्तरं, ततश्च बहुव्रीहिः, दीर्घकालः रयोऽस्येति दीर्घकालरयं, सन्तानोपभोग्यत्वात् , 'जं तु कम्मति यद्भव्यकर्म 'सेसियंति श्लेषितमतिसंश्लिष्टं लेश्यानुभावात् , शेषं प्राग्वत् । अथवा दीर्घकालरज इत्यत्र रज इव रजः सूक्ष्मत्वात् स्नेहबन्धनयोग्यत्वाद्वा, पुनः स एव समानाधिकरणः 'जं तु कम्म'न्ति अत्र यद्भव्यकर्मेति नैवं व्याख्या, किं कारणं ?, साक्षात्कर्माभिधानेन सर्वनाम्नो निरर्थकत्वात् | | प्रकरणादेव च भव्यस्य गम्यमानत्वात्, अभव्यस्य च सिद्धत्वानुपपत्तेः, ततश्च-'जन्तुकम्मे ति एवं व्याख्यायते-जन्तुः-जीवस्तस्य | SACROSASSASSA
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy