________________
वृत्ती
विशेषाव० त्रम्-'उव'इत्यादि । उपयोजनमुपयोगः-विवक्षिते कर्मणि मनसोऽभिनिवेशः सार:-तस्यैव कर्मणः परमार्थः, उपयोगेन दृष्टः सारो
बुद्धिचतुष्कं कोट्याचार्य ययेति२, अभिनिवेशोपलब्धपरमार्थेत्यर्थः, कर्मणि प्रसङ्गः कर्मप्रसङ्गः-अभ्यासः परिघोलनं-विचारः कर्मप्रसङ्गपरिघोलनाभ्यां विशाला, सोदाहरणं
अभ्यासविचारविस्तीर्णेति भावः, साधु कृतं-सुष्टु कृतमिति विद्वद्भ्यः प्रशंसा साधुकारः तेन फलवती२, साधुकारेण वा फलं शेषं
| यस्याः सा तथा, कर्मोद्भवैव बुद्धिः । 'हेरनिए'त्यादि टीकोदाहरणानि ॥ पारिणामिकीमाह-'अणु'इत्यादि । अनुमानहेतुदृष्टान्तैः ॥८५६॥
॥८५६॥ साध्यमर्थ साधयतीति अनुमानहेतुदृष्टान्तसाधिका, इह लिङ्गज्ञानमनुमानं, स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः, परार्थमित्यर्थः, अथवा ज्ञापकमनुमान कारको हेतुः, दृष्टमर्थमन्तं नयतीति दृष्टान्तः । आह-अनुमानग्रहणादेव दृष्टान्तस्य गतत्वादलमुपन्यासेन, न, अनुमानस्य तत्वत एकलक्षणत्वात् , उक्तश्च-"अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? । नान्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? | ॥१॥' साध्योपमाभूतस्तु दृष्टान्तः, उक्तश्च-"यः साध्यस्योपमाभूतः, स दृष्टान्त इति (दृष्टान्तः सेति) कथ्यते" कालकृतो देहावस्थाविशेषो वय इत्युच्यते तद्विपाकेन परिणामः-पुष्टता यस्याः सा तथाविधा, हितं-अभ्युदयस्तत्कारणं वा निःश्रेयसो-मोक्षस्तन्निब
न्धनं वा हितनिःश्रेयसाभ्यां फलवती बुद्धिः पारिणामिकी नामेति ॥ इहे त्यादि ।। इह लैङ्गिकं स्वपरप्रत्यायकं ज्ञानमनुमानं मतं, * हेतुस्तु यः कारकः पदार्थः कुम्भादीनामिव मृत्पिण्ड इति ॥ 'होज्ज'इत्यादि प्रागुत्तराद्धं संबध्यते, तच्च स्पष्टं, वाऽथवार्थः, इहार्थलक्षण| मेवानुमान-त्रिविधः स्वात्मन्यन्तर्जल्पः अग्निरत्र धूमात् महानसवत् , 'वयणलक्खणो हेउ'त्ति हेतुस्तु परप्रतिपत्तिनिबन्धनो वच-2 नलक्षणः, पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद्वथावृत्तिरिति ॥ 'दिह'मित्यादि ॥ दृष्टान्तो निदर्शनं, स च साधर्म्यवैधर्म्यभेदाद् द्वेधा 'तेहिं'ति अनुमानहेतुदृष्टान्तैः साधयतीत्यसाविति समासः, 'वयविवक्कपरिणामा' इत्येतदाह-वयपरिणामे य पाएणं सा होति, यत
मारकर
SAMRAA-%ESAKA