SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्तौ ॥८४६॥ % न्तरितं वा, किन्तु यथासंभवं, तदाह- 'लद्वी निव्वित्तिउवगरण ओवयोगो' य, एवं दृष्टो लाभक्रमः, अन्ये तु पूर्वार्द्ध गतपूर्वकोपन्यासानुपपत्ति संचोद्य निर्वृच्युपकरणलब्ध्युपयोगलक्षणं उत्तरार्द्धमाचार्येग भाणयन्ति, उच्यते दब्वेंदियभावेदियसामन्नाओ कमो भिन्नो पुच्वं कओ ॥ दारं ॥ 'परी' त्यादि ॥ ते दव्वओ कम्मकराणं, भावतो साहूणं । दारं । उपसर्गशब्दार्थमाह - 'उव' इत्यादि ॥ उप-सामीप्येन सर्जनं उपसर्गः उपसृज्यते वाऽनेनेत्युपसर्गः उपसृज्यते वाऽसावित्युपसर्गः, स चतुर्विधो दिव्यो माणुसो तेरिच्छो आत| संवेयणीयओ | व्याख्या- 'हास' इत्यादि || दिवि भवो दिव्यो- देवयोनिकः, स चतुर्देत्याह - हासात् - क्रीडया देवा उपसर्ग कुर्युः, तथाऽवज्ञाकृतप्रद्वेषात् पूर्वभवानुबद्धक्रोधाद्वा, तथा मीमांसातः केचित्कुर्युः, किमयं तपश्चरणाच्चालयितुं शक्यो न वेति, तथा विविधा मात्रा विमात्रा - सर्वैर्हासादिभिः, विगता वा मात्रा २ प्रयोजनमन्तरेणैवेत्यर्थः एवंचिय माणुस्सो तिसु आदिमेसु, चउत्थो उ कुसीलपडिसेवणे थीपंडगादीसु उवसग्गो विसिट्टो चउत्थो 'तिरि' इत्यादि ॥ तिर्यग्योनौ भयात् पूर्वभवद्वेषात् आहारार्थं अपत्यसंरक्षणार्थं वा स्थानरक्षणार्थं वा, आत्मसंवेदनीयः घट्टनं कणुकादि स्तम्भनं स्तब्धताऽङ्गानां प्रपतनं गर्त्तादौ लेसणओ उवरिमहेट्टिमबाहु संबंधो ॥ अथ प्रतिद्वारमुदाहरणान्याह - 'रागे 'त्यादि गाथाः षट्, आसां चार्थो मूलावश्यकटीकातो, 'नाभयन्ता नमोऽरिहा' इत्यस्य व्याख्या'पभी 'त्यादि ॥ रागादीनां प्रह्वीकरणं, अथवा नामनमनेकार्थत्वाद्धातूनां, अतो जहायोगं नेयं रागादीणं नामणं, एवं तन्नामातो ते नमस्कारस्यार्हाः, अरिहननादरिहंत इति निरुक्तिः, अथ के पुनररयः ? इत्यत आह इंदियविसयकसाए परीसहे वेयणा उवस्सग्गे । एए अरिणो हन्ता अरिहन्ता तेण वुञ्चन्ति || ३५८२ | अहम्पिय कम्मं अरिभूयं होइ सव्वजीवाणं । तं कम्ममरिं हन्ता अरिहन्ता तेण वुञ्चन्ति ॥ ३५८३ ॥ अर्हनिरुक्तिः फलं निक्षेपाच ॥८४६॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy