________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥ ८४५॥
घाते उपकरणेन्द्रियस्य खरांशुप्रचण्डकरोत्करोपघाते सति न गृह्णाति रूपं, एवं बधिरादिष्वपीति भावना ॥ अथ भावेन्द्रियमाह - 'लधुव' इत्यादि ॥ इह लब्ध्युपयोगौ भावेन्द्रियं का लब्धिः १, क उपयोगः ९ इत्यत आह- 'तदावरणानां' प्रतिस्व मे कै| केन्द्रियावरणानां यः क्षयोपशमः सा तावल्लब्धिरुच्यते स किंविशिष्टः ? इत्याह- 'तल्लाभ' इत्यादि, तल्लाभ एव 'शेषं' उपकरणजातं लभ्यते, तदनेनैतत् ज्ञापयति - तल्लाभ एव तल्लाभः । लब्धिरुक्ता, उपयोगमाह-'जो' इत्यादि । इन्द्रियस्य स्वविषये यो 'व्यापारः' प्रणिधानं वीर्यं स उपयोग उच्यते, स चैकस्मिन् काले एकेनैवेन्द्रियेण भवति, यस्मादेवं तस्मान्निश्चयत उपयोगेन-भावेन्द्रियैक काल भाविना सर्वः प्राप्येकेन्द्रिय इति, एकेन्द्रिय एवेत्यर्थः । कथं तर्हि द्वित्रिचतुःपञ्चेन्द्रियव्यपदेशो जीवानामित्युच्यते-'एगिंदी' त्यादि । 'सेसिंदियाई पडुच्च' यथासंभवं लब्धिनिर्वृत्त्युपकरणाख्यानि (प्रतीत्य) जीवानां प्राणभृतामेकेन्द्रिय (यादि) भेदाः, व्यपदेशाः प्रजायन्त इति वाक्यशेषः, तथाहि - उपयोगं प्रत्येकेन्द्रिया एकेन्द्रिया एव, लब्धि निर्वृत्तिमुपकरणं च द्वीन्द्रिया उपयोगं प्रत्येकेन्द्रियाः लब्धिद्वयं निर्वृत्तिद्वयसुपकरणद्वयं वाऽऽश्रित्य द्वीन्द्रियाः, इत्येवमादिभावना । अत्र विकल्पोऽपि संभवतीत्यतोऽथवेत्याह- अथवा लब्धीन्द्रियं पडुच्च शक्तिमात्रं पञ्चन्द्रियाः सव्वेऽवि, अपिशब्दस्य व्यवहितत्वात् कुत एतदुच्यते यदा च यत्र चाजीवव्यवच्छेदेन जीव एव लब्धिसद्भावात् तथाहि'जं किरे' त्यादि स्पष्टा ॥ प्रयोगः - 'पंचिदिते' त्यादि । बकुलः पञ्चेन्द्रिय एव सव्वविस ओवलंभाओ नखत्, न चैकेन्द्रियत्वविरोध इत्याह- 'तहवी' त्यादि स्पष्टम् । तथा च- 'सुत्तोऽवीत्यादि, दृष्टान्तः सुगमः । अथेन्द्रियाणां लाभे क्रमनियममाह - 'लाभ' त्यादि ॥ लाभक्कमो उ कओ भिण्णोत्ति संटङ्कः, लाभक्रमस्त्विन्द्रियाणां 'कृतः' निर्वर्त्तितो दृष्ट इतियावत् भिन्नः - अन्यथा, कुतो भिन्नः १ इत्याह- दव्वेंदियभावेदियसामण्णा ओत्ति, कोऽस्यार्थः ?, न प्राग् द्रव्येन्द्रिये पश्चाद्भावेन्द्रिये प्राग्भावेन्द्रिये पश्चाद् द्रव्येन्द्रिये एका
"
इन्द्रियाणि उपसर्गाव
||८४५॥