________________
विशेषाव : कोट्याचार्य
वृत्तौ
!१८३७||
श्रति द्वेधा । यथाक्रमं व्याख्या- 'जोग्गा' इत्यादि । अह कम्म दव्वरागो कः १ इत्याह- चउब्विहा पोग्गला होन्ति रागवेदनीयविषया भावकषाय वेदनीयस्य भावरागस्य कारणमित्येतावान् वाक्यशेषः, कथमित्यत आह-अग्गद्धं, जोग्गा पोग्गला बन्धपरिणामाभिमुखाः, बध्यमानकास्तु आत्मप्रदेशैः सहकलोलीभावं गताः, गाथाभङ्गभयादन्यथोपन्यासः, बद्धास्तु सत्कर्मतया स्थितत्वेन निवृत्तन्धपरिणामाः, जीवेनात्मसात्कृता इत्यर्थः, तथा प्राप्ता उदीरणावलिकामुदीरणाकरणेनाकृष्य यावदुदयं न यान्तीति तावदेते चतुर्विधाः पुद्गलाः कर्मद्रव्यराग इति शेषः ॥ 'नो' इत्यादि ॥ नोकर्मद्रव्यरागः, तदेकदेश इति वाक्यशेषः । अथवा कम्मदव्वरागो दुविहो, तथा चाह-पओगओ सो कुसुंभरागादी, बितिओवीत्यादि स्पष्टा । भावरागो द्वेघा-आगमतो नोआगमतश्थ । नोआगमत आह'जं राग' इत्यादि स्पष्टा ॥ कुतः १ इत्याद्युदाहरणानि - 'कुप्पे' त्यादि ॥ कुप्रवचनेषु त्रिषु त्रिषष्टयाऽधिकेषु प्रावादुकशतेषु 'आसीनं किरियाण' मित्यादि, तथा तीर्थ्या- जिगवयणबाहिरमती मूढा नियदरिसणाणुराएण सव्वण्णुभणियमेते मोक्खपहं नो पचति । द्वितीयस्तु शब्दादिविषयो रागः । तथा विषयाद्यनिमित्तोऽविनीतेष्वपि सुतादिषु यो भवति स स्नेहरागः, अत्र स्नेह गे उदाहरणव्यापादितभर्तृभ्रातृजायावैराग्यप्रव्रजितशुनी मर्कटीपक्षिण्युपसर्गोदाहरणतः । एष त्रिविधोऽपि रागोऽप्रशस्तः, प्रशस्तस्तु 'अरहन्ते य रागो' इत्येवमादि ॥ अथ द्वेषनिर्वचनम् - 'दुस्संती' त्यादि || 'दुष वैकृत्ये' दुष्यन्त्यनेनास्मिन् वेति दोषः, भावसाधनो वा, एस दोस अहवा देसो, तत्राप्येतदेव व्युत्पत्तित्रयमाह - 'अह देसणं व देसो त्ति अथ द्वेषः । 'द्विष् अप्रीतौ' द्वेषणं द्वेषः, द्विष्यतेऽनेनास्मिन् वेति द्वेषः, 'देसो व'त्ति देसो व, सो चउद्धा इति सो दोसो देसो वा चउद्धा णामादि जाय दव्वे चिन्त्ये कम्मदव्वदेसो नोकम्मदव्वदेसो वा । व्याख्या- 'जोग्गा' इत्यादि स्पष्टम् || 'ज' मित्यादि स्पष्टं, नवरं 'वत्थुविगितिस्स भावो' 'दुष वकृत्ये' स्वभावस्थस्य
रागद्वेष स्वरूपं
॥ ८३७॥