SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ विशेषाव० अविप्रणा शाद्याः कोट्याचार्य वृत्तौ ॥८३३॥ ॥८३३॥ ROGRAMMARRORSCREAM 'मग्गे' इत्यादि । यद्-यस्मात्सिद्धाः-सम्प्राप्तनिर्वाणसुखाः, अनेन मार्गेण-ज्ञानदर्शनचारित्रलक्षणेन 'शिव' शिवपुरी प्राप्ताः, कथं ?-'अविप्रणाशेन' अनुच्छिन्नसन्तानभावेन, तेन ते पूज्याः, कृतार्थत्वात् , प्रयोजनश्चायं-पूज्याः सिद्धाः अविप्रणाशबुद्धेजनकत्वेन मार्गोपकारित्वात् , द्रव्यदृष्टान्ते वक्ष्यमाणधनसार्थवाहवत् जिनेन्द्रवच्च, 'गुणमया जं च'त्ति इतश्च पूज्या गुणात्मकत्वात् जिना | चार्योपाध्यायसाधव इव ॥ अत्र चरमप्रमाणमिच्छन्नाद्यं चानिच्छन्नाह चोदक:-'गुण' इत्यादि ॥ गुणवत्पूजातः फलमस्तीतिकृत्वा | 'तत्पूजनं' सिद्धपूजनं प्रतिपद्यामहे, तत्फलसम्बन्धाजिनादिपूजनवत् , अतः सुष्ठूच्यते गुणमया जं चत्ति, यत्पुनस्ते सिद्धा मार्गो| पकारिणो जिनवदित्येतत् कुतस्त्यं ?, एतदुक्तं भवति-प्राममाणेऽसिद्धो हेतुः ॥ अथ गुरुरभ्युपगतदृष्टान्तेनानभ्युपगतं संसाधयन्नाह'जती'त्यादि ॥ यदि तद्गुणपूजातो-गुणवत्सिद्धगुणपूजातः सिद्धेभ्यः स्वयमेव फलं प्रपन्नं जिनादिदृष्टान्तेन, तन्ननूपकारोऽसौ फलाख्यस्तेभ्य उभयसिद्धेभ्यः सिद्धेभ्यः, तथाहि-तदभावे-सिद्धाभावे का पूजा ? किंवा फलं ? 'से' पूजकस्य ?, नैवेत्यर्थः, एवं चेन्ननु निवृताविप्रणाशबुद्धिरपि तानन्तरेण न भवतीत्ययमुपकारस्तेभ्यः किं नेष्यते ?, इष्यतां येनोभयसिद्धो हेतुः स्यादिति ॥ 'गन्तु। इत्यादि ॥ 'वा' अथवाऽन्यथाऽयमर्थः प्रतन्यते, शेषो गाथार्थः स्पष्टः, अयं दर्शनादिकलापः सन्मार्गः अनेन गन्तृणां प्रत्यपायादशनात्सार्थवाहप्रहतनिष्प्रत्यपायर्जुमार्गवत् । अपिच-'मग्गम्मी' त्यादि ।। मार्ग दर्शनादौ 'रुचिः' प्रीतिः, इदमुक्तं भवति-अयं मार्गों भव्यानां रोचयिष्यते, हेतुमाह-तदविप्पणासओ, तद्गन्धाविप्रनष्टत्वात् , तथा तत्फलोपलम्भादित्यर्थः, सार्थिकपथिकरुचितधनसार्थवाहप्रहतसन्मार्गवत्, ततः प्रकृते क उपयोगः इत्यत आह-'यत्' यस्माजायते भवति तेभ्यः सिद्धेभ्यो नेतरथा-अन्यथा अयमुपकार इति शेषः, अतः 'तदुपकारोऽसौ' सिद्धोपकारोऽसौ मार्गरुच्याविर्भावः, तदुपकारोऽसौ तेन यातानामनष्टत्वाद्धनसार्थवा MHARINCRECROSSARGACARENCE
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy