SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥८२८॥ चतुष्टये यदुपचरितमनुपचरितं वा तदाह - 'उव' इत्यादि । 'देस'ति तृतीयभङ्गे देशवचने नोशब्दे सति 'पदेसो त्ति यः प्रदेशः | सम्यग्दृष्टयेकदेशो नमस्कार उक्तः स कथमित्यत आह- उपचारदेशनात्, उपचारदेशनं तु प्रकृत्येकदेशत्वात् एवं चतुर्थभङ्गे देशचने नोशब्दे सति 'पदेसो त्ति यः प्रदेशो मिथ्यादृष्टयेकदेशो नोअनमस्कार उक्तः स खलूपचारदेशनात्, उपचारदेशनं तु प्रकृति| नब्धर्मत्वात्, सद्भूतप्रतिपादनार्थमाह-प्रकृतिनिषेधाच्चाद्यद्वितीयभङ्गौ सद्भूतौ, अनुपचरितावित्यर्थः, तुशब्दाद् उपरिमभङ्गदयनोशब्दे सर्वप्रतिषेधवचने सति सद्भृतौ, एकस्य द्वितीयानतिक्रमादपरस्य त्वाद्यानतिक्रमात्, अत एवाह - 'सव्वोऽवी' त्यादि ॥ सव्वोऽवि नमोक्कारो अणमोक्कारो होउं चउभूतोविहु, किमत आह- वंजणनयस्स त्रयाणां शब्दनयानां निश्चयनयानामेकैको द्विभेदो भवति, | तद्यथा - नमस्कारः प्रकृत्या उभयनिषेधेन च, इतरस्त्वकारेण नोकारेण चेति, अथ सामान्योक्तं केषाम् १, उच्यते - सेसणं शेषा-निर्यापना | नमस्कारचतुर्विधप्ररूपणा वेति, यत उक्तं नियुक्तिकारेण पच्छद्धे, नमोकार अणमोक्कारे एतौ द्वौ भङ्गौ, एतावेव नोशब्दोपपदौ द्वावुपरिमौ भवतः, एवं वा नवघा प्ररूपणा, पञ्च चत्वारथ नवेतिकृत्वा ॥ दारं । अथेदानीं सांन्यासिकम् - वत्युं अरहा पुज्जा, जोग्गा के ? जे नमोऽभिहाणस्स । संति गुणरासओ ते पंचारुहयाइजाईया || ३४९०॥ भेओवयारओ वा वसंति नाणादओ गुणा जत्थ । तं वत्थुमसाहारणगुणालओ पंचजाइयं ॥ ३४९१ ॥ तं अरहन्ता सिद्धायरियउवज्झाय साहवो नेया । जे गुणमयभावाओ गुणा पुज्जा गुणत्थीणं ॥ ३४९२ ॥ मोक्खस्थिणो व जं मोक्ख हे अवो दंसणादितियगं च । तो तेऽभिवन्दणिज्जा जइ व मई किह ते १ ॥ ३४९३ ॥ 'वत्थु 'मित्यादि ॥ वत्थं केत्ति के वस्तु ये नमोविधानस्य पूज्या अर्हा योग्या इति, आदराधानार्था च पर्यायशब्दपरम्परा, वस्तुपंचकं ॥८२८॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy