SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती ॥८१३॥ %E0%A च 'नव वा' नवपदा चशब्दात्पश्चपदा च, षट्पदामाह-षट्पदा इयं, 'कि'मित्यादि नमस्कारः। अस्यैव नियुक्तिकारव्याख्या-'कि' नमस्कारे मित्यादि । किमिति प्रश्नक्षेपनपुंसकव्याकरणादिषु, तत्रैव न क्षेपादिषु, अपि तु परिप्रश्ने, अयं चाभिधेयवशात्रिष्यपि लिङ्गेषु, तत्र किमादीनि किमिति कोऽर्थः ?, को नमस्कारः ? किं जीव ? इत्येवमादिप्रश्ने, नैगमाद्यविशुद्धनयमतमङ्गीकृत्याजीवव्युदासेनाह-जीवः, स च जीवः द्वाराणि संग्रहनयापेक्षया मा भूदविशिष्टस्कन्धः स्यात् , यथाऽऽहुस्तन्मतावलम्बिन:-'पुरुष एवेदं सर्वमित्यादि, यथा 'विशुद्ध'मित्येवमादि, तथा 'आनंदममलं ब्रह्म त्येवमादि, तथा संग्रहनयापेक्षयैव मा भूदविशिष्टग्रामः स्यात् , ततः नोस्कन्धो नोग्राम इति वाक्यशेषः, ॥८१३॥ तथाहि-पश्चास्तिकायमयः स्कन्धस्तद्देशश्च जीवः ततश्चासौ स्कन्धो न भवति एकदेशत्वाद् अनेकस्कन्धापत्तेश्च, नापि चासावस्कन्धः, सर्वस्कन्धाभावप्रसङ्गात् , न चाप्यसावनभिलाप्यो वस्तुविशेषत्वात्, पारिशेष्यात् नोस्कन्धः-स्कन्धैकदेशः, एवं नोग्रामोऽपि वक्तव्यः, नवरं ग्रामश्चतुर्दशविधभूतग्रामसमुदायः, यथोक्तम्-'एगिदियसुहुमितरा सण्णितरपणिंदिया सबिति चऊ । पजत्तापज्जत्ता भेदेणं चोदसग्गामा ॥११॥ तदेवं सामान्येनाशुद्धनयानां जीवो नमस्कारो लब्धियुक्तो योग्यो वा इत्युक्तम् । अथ शब्दादिशुद्धनयमतमधिकृत्याह-'तप्परिणओ'त्ति नमस्कारपरिणतो, जीव इति वर्त्तते, एकानेकविचारे तु भाष्य एक इति वक्ष्यति । दारं । अथ | * | कस्येति द्वारम् । इह च प्रामतिपन्नप्रतिपद्यमानकाङ्गीकरणतोऽभीष्टमर्थमभिधित्सुराह-'पुश्वपडिवण्णओ उ जीवाण'मित्यादि पूर्व प्रतिपन्नाः पूर्वप्रतिपन्नाः, स पूर्वप्रतिपन्न एव यदा जीवानां जीवसम्बन्धी नमस्कारः, तेषामसंख्येयत्वेन बहुत्वात् , प्रतिपद्यमानांस्तु प्रतीत्य जीवस्य वा सम्बन्धी नमस्कारो विवक्षितकाले यदैकः प्रतिपत्ता, तथा जीवानां वा यदा बहव इति, ओधेन एष तावत्समुदायार्थः ॥ किं होजे त्यादि ॥ पृच्छति को नमस्कारो भवेत् ?,किं जीवोऽजीवः ?, जीवाजीवत्वेऽपि गुणो वा द्रव्यं ?, सामायिकवत् । तदेवं 4 %95%
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy