SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्तौ नयाः 5 ॥८०९॥ व्य सुवर्णादि, किंविशिष्ट ?-अनाकारमपि, कस्माच्चेच्छतीत्याह-भावहेतुत्वात्-कुण्डलादिहेतुत्वात् , किमत आह-नेच्छेत् कथं निक्षेपे स्थापनां?, किंविशिष्टां ?-साकारां-सकरणिं, किमितीच्छेत् ?, भावहेतुत्वाविशेषादित्यर्थः, अथवा 'तदनाकारमपि' इन्द्राकाररहितमपीच्छंस्तदाकारां स्थापनां कथं नेच्छेत् ? । अथ सिद्धेनासिद्धमाह-'नामंपी'त्यादि ॥ नामनिक्षेपोऽप्यस्य द्वेधा, कथमित्याह-होज सण्णा पदार्थश्च तव्वच्चं वा, एतदुक्तं भवति-नामाप्यस्याभिधानमात्रं वा इष्टं यथा इन्द्र इति, तद्वाच्यं वा इन्द्रशब्दवाच्यं वा गोपालवस्तु, एतच्च द्वयमपि नान्वर्थप्रवृत्तम् , अथ च भावहेतुत्वाद्-भावेन्द्रप्रत्ययहेतुत्वात् , अतः 'तदिच्छंतो'त्ति तन्नाम 'तदर्थशून्यमपि' अन्वर्थपरिशू. ४८०९॥ न्यमपि भावहेतुमिच्छन् , किमत आह-दव्वट्ठवणे कहं नेच्छे ?, तदर्थशून्यत्वाविशेषात् इच्छति ते असो, भावहेतुत्वान्नामवद् अन्यथा तदनभ्युपगमप्रसङ्गात् । अथैतत्परिजिहीर्पूणां मतमारेकते-'अहे त्यादि ॥ अथ मन्यध्वं-'नाम' सज्ञालक्षगं 'भावेऽपि भावेन्द्रेऽपि येन न निवर्त्तते तेन तदसौ तत्रेच्छति, इच्छति ऋजुसूत्रो भावे नामसंनिहितत्वात् भावस्वात्मवद्, उच्यते-'तेणे'त्यादि | स्पष्टं, प्रयोगः सुकरो नामदृष्टान्तात् , तस्माद् ऋजुसूत्रस्य चतुष्टयसिद्धिः, यञ्चोक्तं-'ठवणावज्जे इत्यादि, अत्रोच्यते-'संगहिओ | इत्यादि ॥ इह सव्वोविय णेगमो ठवणमिच्छे, किंविशिष्ट इत्याह-'संगहिओ असंगहिओं' य, तदेवं स्थिते इच्छति | जति संगहिओ ठवणं तं संगहो किं न इच्छइ १, समानजातीयाभ्युपगतत्वात् , एवं तावत्संग्रहस्य स्थापनोक्ता। अथ व्यवहारस्याह'अहे'त्यादि । अथ चेदसंग्रहिकः स्थापनामिच्छतीति मतं, ततो व्यवहारः किं न तद्धर्मा-असंग्रहिकनेगमधर्मा, तुल्यजातीयत्वाद्, व्यु त्पत्त्यर्थमाह-'अह सव्वोत्ति अथ सर्वो-द्विविधोऽपि समुदितो नैगमः स्थापनामिच्छेत् 'तो' ततस्तौ संग्रहव्यवहारौ द्वावपि तत्सधर्माणौ द्वावपि युक्तौ, अविभागस्थाननैगमात् प्रत्येकं प्रत्येकमितिवाक्यशेषः, तदै कैक-(धर्मे युक्ता सा) इति भावना। इतश्चमावेव तद्धर्माणा -MARRIER-15 SEBASIS
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy