________________
विशेषाव ० कोट्याचार्य
वृ
॥८०१ ॥
रस्ति परार्थदर्शनत्वात्-परार्थं प्रयुज्यमानत्वात् छेदनादिना प्रयुक्तवास्यादिवत्, ततश्च नित्य इति, तथा 'अतिंदियत्थत्तओ' त्ति | इह ये इन्द्रियग्राह्मार्थविषया ध्वनयस्तेषु तावत्कृतकसम्बन्धत्वमाशङ्केत, अस्यायमर्थ इति साङ्केतिक प्रयोगविषयस्य बालादिषु दर्शनात्, | ये पुनरमी स्वर्गमेर्वादिशब्दाः खल्वतीन्द्रियार्थास्तेष्वदृष्टत्वेन संकेत करणस्याशक्यत्वान्नित्यता सिद्धा, प्रयोगो - मेरुशब्दादयः शब्दा नित्याः अतीन्द्रियार्थत्वात् केवलज्ञानवत्, ततश्चेन्द्रियग्राह्मार्थविषया अपि घटशब्दादयो नित्याः शब्दत्वात्स्वर्गादिशब्दवत्, अकृतसंकेताचैतेऽपि शब्दत्वात् स्वर्गादिशब्दवदेव । तथा 'अणवत्थाओ' त्ति कृतकसम्बन्धवादिनो हि येन केनापि शब्देन सम्बन्धः क्रियते क्वचित्संकेतकारी तत्रापि मृग्यं शब्दान्तरं पुनस्तस्यापि चान्यत्तस्यापि चान्यदित्यनवस्था भवेत्, तस्मादन्ते कश्चिदिह ध्वनिः स्वतः संसिद्धसम्बन्धः सिद्धस्तावत्, ततः पुनस्तद्द्दष्टान्तेन सर्वेऽपि शब्दत्वाव्यभिचारतो नित्यः सेत्स्यत्यतः प्रोक्तमनवस्थानतः । तथा सम्बन्धनिश्चयतो- नित्यः शब्दः नित्यसम्बन्धत्वादाकाशात्मादिवत् प्रकृतभावना त्वियं-नित्यः पञ्चनमस्कारः शब्दात्मकत्वाद् अनुमितनित्यशब्दवत् ।। अथैताभिरेवोपपत्तिभिर्नमस्कारानित्यतां शेषाः खल्वभिदधति - 'जेणं चियेत्यादि गाथार्द्धम् । अत्र दूषणं यदुक्तं नित्यं ज्ञानं जीवादनन्यत्वाञ्जीववत्, तत्र धर्मस्वरूपविपरीतसाधनाद्विरुद्धो हेतु:, तथाहि न नित्यं ज्ञानं जीवानन्यत्वाजीवस्वात्मवत्, कुतः इत्यत आह-'उप्प' इत्यादि पश्चार्द्ध, यच्चोक्तं नित्यं ज्ञानं सदाऽस्यानन्तभागोद्घाटितत्वाज्जीववदिति, तत्रापक्षधर्मो हेतुः, तथा चाह - ' अवी 'त्यादि || अविशिष्टस्याक्षरस्यानन्तभागो नित्योद्घाट इत्युक्तो, न सम्यग्ज्ञानस्य, एकेन्द्रियाणामपि तत्त्वप्रसङ्गात्, यदा चैवं तदा क इह सम्यग्ज्ञानाधिकारे - नमस्कारज्ञानाधिकारे उदाहरणतया प्रस्तावः १ एतदुक्तं भवति - सम्यग्ज्ञानसहचरितनमस्कारज्ञानस्यानन्तभागोद्घाटत्वं धर्मो न भवतीति । यच्चोक्तं 'अथवा नाणं णिचं अरूवगुणतो नभोऽवगाधो च्व' तत्र नित्यत्वाख्यसा
उत्पन्नानुत्पन्नवि
चारः
॥८०१ ॥