________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥८०० ॥
समर्थनार्थमिदमभिदध्यात् इत्थमेवास्तु को नः प्रत्यवायः १ इत्यत आह- उच्यते एवं च कृत्वाऽकृताभ्यागमकृतविप्रणाशदोषौ प्राप्नुत इति, तस्मादनित्य उत्पत्तेः कुम्भवदिति ब्रुवकः ॥ त एव परमतमाहुः - 'अह' इत्यादि ॥ अथ वक्ष्यसे- हे नैगमाद्यभेद ! स णिचोत्ति भतिमंतसंताणओत्ति- बहुभक्ति मत्सन्तानिनामुच्छेदासंभवात् प्रयोगः - इह यत्राश्रयानुच्छेदस्तत्राश्रितस्याप्यनुच्छेदः तद् यथाकाममहमहमिकया भोज्यामन्त्रणक्रीडनादिलो कव्यवहारः, तथाऽऽहुः - यद्येवं कमप्युप्पण्णोणमप्युष्णो (त्पन्नो न उप्पन्नो) णमुकारो भण्णइ त्वया, ननु न नोत्पन्नोऽसौ तथा चाह - ननु स आश्रयो भवति, कुतः ?, सन्तानित्वात्, तद्भवने च नमस्कारोऽपि भवति तदाश्रितत्वात् घटभवने | रक्ततावद् बीजाङ्कुवद्वा ॥ अथ सैद्धान्तिकवस्तुविवेचनार्थमेभिरेव तं विकल्पयति- 'होज्जा' इत्यादि । अपिच-योऽसौ नमस्कारो नोत्पद्यते भवतः स ज्ञानं वा भवेत् शब्दः क्रिया तत्संयोगो वा द्विकादिचारणयेति, किं चातो ?, न सर्वथा अनुत्पादी, चतुर्णामपि ज्ञानादीनां उत्पत्तिमच्चात् । अथैतदक्षाम्यनैगम आह - 'नणु' इत्यादि पुच्बद्धं स्पष्टं, प्रयोगः- ज्ञानं नोत्पद्यते जीवादनन्यत्वात् जीवस्वात्मवत् । तथा - ' णिच्च' इत्यादि स्पष्टं, प्रयोगः- नित्यं ज्ञानं सदाऽस्यानन्तभागोद्घाटत्वात् जीवस्वरूपवत् । 'अहवे' त्यादि ॥ अथवे प्रकारान्तरार्थः, णाणं निचं अरूवगुणओ-अमूर्तस्यात्मनो धर्मत्वात् नभोऽवगाहवत्, अथवा सर्वं ज्ञानं शब्दः कार्यक्रिया नित्यं, लयप्रकारा (शा) परिणामित्वात् तद्यथा परमाणवः ॥ अथ विशेषेण शब्दनित्यत्वप्रसाधनार्थमाह- 'दरिसणे' त्यादि ॥ इह 'सद्दावत्थाणमणुमेयं'ति क्रिया सर्वत्र प्रतिज्ञार्थः, हेत्वर्थमाह- 'दरिसण परत्थयाओ'ति, इह दर्शनं शब्दप्रयोगः उच्यते, आत्मव्यतिरिक्तः परस्तस्यार्थःप्रयोजनसिद्धिः परार्थः दर्शनस्य परार्थः २ तद्भावस्तत्त्वं तस्मात् एतदुक्तं भवति न वक्तृभिः शब्दोत्पादनमात्रार्थं शब्दप्रयोगः क्रियते, किं तर्हि ?, कोऽप्यस्य पराप्रतिपन्नो वाच्योऽर्थोऽस्ति तत्संबोधनार्थ, तस्मात्पराभिमतशब्दोत्पत्तेः प्रयोगकालात् प्रागपि ध्वनि
उत्पन्नानुत्पन्नवि
चारः
॥८००॥