SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥७९९ ॥ सव्वो मुणति आवरणात्स्वरूपवत्, तथा च स्वरूपमात्मनोऽस्ति न चासावुपलभते तज्ज्ञानावरणादित्यनैकान्तिकः ते हेतुरनुपल| म्भादित्ययम् ॥ 'सेसाणं उप्पण्णो'त्ति, एतदाह - 'से समय' मित्यादि । शेषाणां - उपरिमनयानामाद्यनयानां च मतं - अभिप्रायो | नास्त्य सावेवंविधस्तर्हि नमस्कारः, किं कारणमित्याह - अनुत्पादादविनाशात्त्रपुष्पवत् । व्यतिरेकमाहुः - 'ज' मित्यादि स्पष्टं, अतोऽनि| त्योऽसाविति । यच्चोक्तं (' यच्चात्र') आवृतत्वात् सन्नपि नोपलभ्यत इत्यनैकान्तिको हेतुरित्युक्तं तत्राहु: - 'आवरणा' दित्यादि । तस्य | नमस्कारस्य आत्मन इवावरणादग्रहणं न त्वभावादित्यत्र को हेतुः १, इदमुक्तं भवतीति न विद्मः किमावरणात् सर्वेण सर्वदा नोपलभ्यते उत अभावादिति संदिग्धासिद्धो हेतु:, तस्मादभावादेव तदग्रहणमिति शेषाणामभिप्रायो, यत आहुः - 'भत्ती ये' त्यादि पच्छद्धं, ननु द्रव्यास्तिके भक्तिर्नमस्कारो भण्यते, तत्कथं सा भक्तिरस्त्यर्हदादिषु प्रत्यक्षसिद्धा १, न च तस्य नमस्कारस्यात्र ग्रहणं, तस्माद् यत्रो - |त्पन्नस्तत्रासावस्त्युपलभ्यमानत्वात्, यत्र तु नोत्पन्नस्तत्र नास्त्यभावात्, किमत्रावृतिकल्पनयेति ?, तस्मान्नास्त्यसौ अनुपलभ्यमानत्वात्खरशृङ्गवत् । कदाचिदाह - 'अह परसंतोत्ती'त्यादि ॥ अथ तस्योपदेष्टुः परस्यासावस्ति, शिक्षकस्य तु ज्ञानावरणोदयाद्विद्यमानोऽपि उपलब्धिविषयं नो याति, ततः कारणादनुपलब्धिर्नाभावादिति, उच्यते, यद्येवं ततः किं कस्स णो संतं नाम ?, अतिप्रसङ्गात् एत दुक्तं भवति - सर्वस्य स्वामिनः सर्व वस्त्वस्त्येव, तथा च अधणादिव्यपदेशो नेवंपि एवं न कश्चिदधनः परस्वस्यापि स्वत्वाभ्युपगमात् | स्वधनवत् केचित्वाहुः, नमस्कारवत् । तथैवं न च परधनस्याफलता स्यात् स्वत्वेनाभ्युपगमात् स्वधनवत् ।। 'सव्व' इत्यादि ॥ तथा | एवं सव्वं धणं यत्सर्वेषां प्रतिस्वं प्रतिस्वं तत्सामान्यं प्राप्नोति, सर्वस्यापि स्वत्वात् प्रत्येकखवत्, तथा एवं 'भत्ती फलं च'त्ति यदेकस्यार्हदादिभक्तिफलं सेसं च किरियाफलं यदेकस्य तत्सामान्यं प्राप्तं फलत्वात् स्वस्येत्र, कदाचिद् 'परसंतोति तओ' इत्यादिदुर्भाषित उत्पन्नानुत्पन्नवि चारः ॥७९९ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy