________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥७९७॥
उप्पज्जइ नाईयं तक्किरिओवरमओ कयघडो व्व । अहवा कयंपि कीरइ कीरउ निच्चं कओ पिट्ठा १ ।। ३३८३ ॥ होउ व पुष्पाओ तहवि न सोलद्धिवायणाभिन्नो । जेण पुराऽवि सयं वा परओ वा होज से लाहो १ ॥३३८४ ॥ ॥ सद्दाइमयं न लहइ जं गुरुकम्मा पवायणाएवि । पावइ य तदावरणक्खओवसमओ जओऽवस्सं । ३३८५ ।। तो हे द्विच्चियन वायणा जइ तई खओवसमो । तकारणोत्ति तम्मिवि ननु साऽणेगंतिगी दिट्ठा ॥ ३३८६ ॥ जस्सवि य तन्निमित्तो तस्सवि तम्मत्तकारणं होजा । न नमोक्कारस्स तई कम्मक्खओवसमलब्भस्स ||३३८७ || अह कारणोवगारित्तिकारणं तेण कारणं सव्वं । पाएण बज्झवत्युं को नियमो सहमेत्तम्मि ? || ३ ३८८ || अह पच्चासण्णतरं कारण मेगंतियं तओ लद्धिं । पडिवज्ज कारणं तो न वायणामित्तनियमो ते ॥३३८९ ॥ 'उप्पण्णे'त्यादि ॥ उत्पन्नश्च सोऽनुत्पन्नश्च स इति समानाधिकरणः, 'तेन नव्विशिष्टेनानत्रि' ति उत्पन्नानुत्पन्नः कृताकृतवत्, अयं च स्याद्वादवादिन एव समासो युज्यते, नान्यस्यैकान्तवादिनः, एकत्रैकदा परस्परविरुद्धधर्मानभ्युपगमात् ननु चार्हतस्याप्ययं कस्मात्समासो युज्यते १ इत्याह- 'एत्थ णय'त्ति अत्र नयाः प्रवर्त्तन्ते, ते च नैगमादयः सप्त, तत्र नैगमो द्वेधा - सर्वसंग्राही देशसंग्राही च, तत्रादिनैगमस्य - सर्वसंग्राहिणोऽनुत्पन्नो नमस्कारः, किं कारणं ?, तस्य सामान्यमात्रावलम्बित्वात् तस्य चोत्पादव्ययरहितत्वात्, नमस्कारस्य च सामान्यान्तर्गतत्वाद्, असामान्यान्तर्गतत्त्वे त्वभावत्वप्रसङ्गात्, तथा 'सेसाणं उप्पन्नो' त्ति शेषा - एतद्वयतिरेकिणस्तेषां शेषाणामुत्पन्नो नमस्कारः, तेषां विशेषग्राहित्वात् तेषां चोत्पादव्ययधौव्यवच्चात् तस्य च विशेषत्वाद्, अविशेषत्वे तु खपुष्पकल्पत्वात्, आह-न द्वितीयः संग्रहारव्यो विशेषग्राही शेषश्वासौ, उच्यते, तस्यादिनैगम एव समानजातीयत्वेनावरोधात् । 'जति कत्तो 'ति यद्ये
उत्पन्नानुत्पन्नवि
चारः
॥७९७॥