________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥५२१॥
यत्पूर्वक आद्योऽभिलाषः स शरीरादन्यः, शरीरात्ययेऽपीहत्याभिलाषकारणत्वाद्, न चापद्रव्यो गुगोऽस्त्यत आश्रय्याश्रयं सूचयतीति । स्यात्-नाभिलाषोऽन्याभिलाषपूर्वक एवेत्यतो नैकान्तः, तथाहि-न मोक्षाभिलाषोऽन्याभिलाषपूर्वक इति, उच्यते, न, अविशेषाभिधानात्, तथाहि - मोक्षाभिलाषोऽपि न सामान्याभिलाषपूर्वकत्वमतिवर्त्तते, अथवाऽभिलाषत्वादिति हेतुरत्र दृश्यः, एवमिन्द्रियादिमन्चमन्यशरीरसाधकं चेतनत्वसुखदुःखादिमच्चादि च ॥ २१४०-४२|| 'अण्णे' त्यादि ॥ अन्यसुखपूर्वकमिदमाद्यं बालसुखं, अनुभवात्मकत्वात्, साम्प्रतसुखवत्, यत्सुखपूर्वकं चेदमाद्यं तच्छरीरादन्यत्, शरीरात्ययेऽपीहत्य सुख कारणत्वात्, न चापद्रव्यं तद् गुणत्वाद्, अतो यस्तदाश्रयः स शरीराधिको जीवः, एवं दुःखरागद्वेषभयशोकादयोऽप्यायोजनीयाः || २१४३ || 'संताणो' इत्यादि प्राग्वत्, नवरमयं विशेषार्थः, अत एवानयोर्देहकर्मणोः कर्त्ताऽवसीयते, तयोः कार्यकारणभावात्, ययोः कार्यकारणभावस्तयोरर्थान्तरं कर्त्ताऽस्ति, यथा दण्डघटयोः, तथा च कर्मदेहयोरिति, स्यात् - कर्माप्रतिपादितमिति, उच्यते - ननूक्तमन्यदेहपूर्वकमिदं बालशरीरमिन्द्रियादि मच्चात्, यत्पूर्वकं चेदं तत्कर्मेति, पूर्वशब्दस्य कारणवचनत्वात्, (य) त एवं चेदतः - 'तो' इत्यादि || 'अत्थी' त्यादि । 'अत्थी' त्यादि ॥ 'भोत्ता' इत्यादि । 'जो' इत्यादि ॥ जाव य णो संसारिणोऽदोसो प्ति प्रथमगगवरवत्, वरमिह स एव देहाधिक इति भण्यते, तदेवमेतावता ग्रन्थेन लोकायतं प्रत्यर्थान्तरमात्मा प्रसाधितः ॥ २१४४ - ४९ ॥ इदानीं बौद्धमतमाशङ्कते - तस्य हि सकलपदार्थव्यापिन्यनित्यतेति सतो जीवस्य क्षणिकताप्रसङ्गः, क्षणिकतायां च स्कन्धसमानधर्मत्वान्न तदर्थान्तरानर्थान्तरकल्पना कार्येत्याशङ्कयाह
जाइस्सरो न विगओ सरणाओ बालजाइसरणोच्व । जह वा सदेसवत्तं नरो सरंतो विदेसम्मि ॥ २१५० ॥ अह मन्नसि खणिओऽविहु सुमरइ विन्नाणसंतइगुणाओ । तहवि सरीरादण्णो सिद्धो विष्णाणसंताणो ॥ २१५१ ।।
क्षणिकवादनिरासः
॥५२१॥