________________
विशेषाव ० कोट्याचार्य
वृत्तौ ॥५२०॥
कारणात् पश्चेन्द्रियाधिकोऽस्ति, दृष्टान्तमाह-पश्च च ते भिन्नविज्ञानाश्च पञ्चभिन्नविज्ञानाः, इच्छानुविधायित्वेन प्रत्येकं स्पर्शरसगन्धरूप| शब्दज्ञानाभिलाषिण इत्यर्थः, पञ्चभिन्नविज्ञानाश्च ते पुरुषाश्च पञ्चभिन्नविज्ञान पुरुषास्तेषां विज्ञानं स्पर्शादिविषयं मननमिति समासः तेन संपन्नो युक्तस्तद्वदिति समासः यथाऽसौ षष्ठस्तज्ज्ञानसंपन्नस्तेभ्यो भिन्नः, एवं पञ्चानामिन्द्रियाणां यज्ज्ञानं तज्ज्ञानः तेभ्यो भिन्न आत्मा, प्रयोगः-य एकः पञ्चभिरुपलब्धानामर्थानामनुस्मर्त्ता स तेभ्योऽन्यो दृष्टो, यथेच्छानुविधायिशब्दादिभिन्नजातीयविज्ञानपु|रुषपञ्चकात्तदशेषविज्ञानाभिज्ञो देवदत्तः, तथा चायमात्मेति तेभ्यो भिन्न इत्यवसीयते, व्यतिरेकः प्रावत् स्यात् - शब्दादिभिन्नविज्ञानपुरुषपञ्चकवत् पृथगिन्द्रियोपलब्धिमत्त्वानिष्टापादनाद्विरुद्धः, एतदुक्तं भवति - यथा तत्पुरुषपञ्चकं षष्ठपुरुषानाक्रान्तं स्पर्शादीनाद ते एवमिन्द्रियपञ्चकमप्यात्मप्रदेशानाक्रान्तमर्थं गृह्णाति, यं जानाति आत्मेति दृष्टान्तसामर्थ्यात् तच्च न, इच्छानुविधायिविशेषणात् अनेन काल्पनिकत्वमाह, उपलब्धिकारणत्वाच्चोपलब्धिमदुपचारादित्यनेनापि स्वत एतेषामनुपलब्धिमन्त्रमाह, एतदुक्तं भवति - विशेषविरुद्धोऽयं प्रत्यक्षादिबाधितत्वात् पाक्यः शब्दः कृतकत्वाद् घटवदित्यादिवत्, न गण्यते, प्रतिपच्युपायमात्रं चैतदिति न दोषः, शिष्यव्युत्पत्तिप्रस्तावादिति ॥ ३७-३९ ॥ 'विन्नाण' मित्यादि । इह बालज्ञानं विज्ञानान्तरपूर्वकं विज्ञानत्वात् न चायं हेतुः प्रतिज्ञार्थं कदेशो यथाऽनित्यः शब्दोऽनित्यत्वात् किं कारणं १, विशेषस्य पक्षीकृतत्वात् भवति च विशेषे पक्षीकृते सामान्यं हेतु:, यथाऽनित्यो वर्णा|त्मकः शब्दः शब्दत्वान्मेघशब्दवदिति, ननु प्रतिज्ञार्थैकदेशो ह्येवं स्याद् यद्येत्रमभिधीयेत - अन्यविज्ञानपूर्वकं बालविज्ञानं विज्ञानत्वादिति, ' जहे 'त्यादि यत्पूर्वकं च बालज्ञानं तं च 'देहहियं' ति तच्छरीरादतिरिक्तं वर्त्तते, प्राक्शरीरात्ययेऽपीहत्य विज्ञानकारणत्वात्, तद्गुणिनमात्मानममुतो देहाद् भिन्नं व्यवस्यामः, तस्मान्न तदेव शरीरं तदेव जीव इति । तथा-'पढमो' इत्यादि स्पष्टा, नवरं सो यत्ति,
बालविज्ञानं
॥५२०॥