SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥५१९।। भोत्ता देहाईणं भोजत्तणओ नरो व्व भत्तस्स । संघायाइत्तणओ अत्थि य अत्थी घडस्सेव || २१४८ || जो कत्ताइ स जीवो सज्झविरुद्धोत्ति ते मई होला । मुत्ताइपसंगाओ तं नो संसारिणोऽदोसो || २१४९॥ 'भूती' त्यादि || भूतात्मकेन्द्रियोपलब्धार्थानुस्मरणतः कारणात् तेभ्यो विविक्तरूपस्य कस्यचिद्धर्मिणः 'चेतना' चैतन्यं गुणः, पश्चाद्धेन दृष्टान्तः सूचितः 'सरओ'ति तेभ्यो भूतेभ्यो भिन्नस्य चेतना, प्रयोगः- य एको येनोपलभ्य बाह्यं वस्तु स्मरति स तस्मादतिरिक्तो दृष्टो यथा गृहान्तः स्थस्तद्भवाक्षेणोपलभ्य योषितं पुनस्तामेवानुस्मरतस्तस्माद्व्यतिरिक्तो देवदत्तः तथा च आत्मा इन्द्रिये - गोपलभ्य स्मरति तस्मात्तदतिरिक्तः, यश्च यतोऽनतिरिक्तो नासावेकोऽनेकोपलब्धानामर्थानामनुस्मर्त्ता, यथा मनोज्ञानविशेषः, तस्मा| त्साक्षादग्रहणात्, तेनोपलभ्य स्मरतोऽपि चानतिरिक्तत्वे देवदत्तस्यापि गवाक्षमात्रप्रसङ्गो बाधकम् ।।२१३६ ।। तथा- 'तदु' इत्यादि ॥ तदितीन्द्रियं ततश्चेन्द्रियोपरमेऽपीन्द्रियान्ध्यबाधिर्यादिभावेऽपि स्मरणात् तद्दृष्टस्यार्थस्येति हेत्वर्थः, प्रयोगः - इन्द्रियातिरिक्तो विज्ञाता, तस्स्थगनेऽपि तदुपलब्धार्थानुस्मरणात्, यथा पूर्वोपलब्धार्थ गवाक्षस्थगनेऽपि स्मरन् देवदत्तः, शेषं प्राग्वत् । तथा 'तदि' त्यादिहेत्वर्थः, | प्रयोगः - यस्य यद्वयापारेऽप्यनुपलम्भस्तस्य ततोऽन्यत्वं, तद्यथा गवाक्षव्यापारेऽप्यनुपयुक्तस्य देवदत्तस्य तत इति, शेषं प्राग्वत्, पश्चार्द्ध सर्वत्र प्रतिज्ञादृष्टान्तसूचकम् | 'उव' इत्यादि ॥ ध्रुवमिन्द्रियाधिको जीवः अन्येनोपलभ्यान्येन विकारग्रहणात्, योऽन्येन | गृहीत्वा अन्येन विकारं प्रतिपद्यते स तस्माद् भिन्नो दृष्टः यथाऽअंकपधवलगृहारूढः परिष्वष्कन् पूर्वेग वातायनेन ललनामालोक्य पुनस्तस्यामेवापर वातायनपुरः स्थायामश्चिभ्रूक्षेपादिविकारं प्रतिपद्यमानो देवदत्तः, तथा चायमात्मा चक्षुषा चिञ्चिणिकामालोक्य - नेन हल्लासलाला श्रावादि प्रतिपद्यते, तस्मात्तयोर्भिन्न इत्यवसीयते ॥ २१३८ ॥ तथा - 'सव्व' इत्यादि । सर्वेन्द्रियोपलब्धार्थानुस्मरणतः बालविज्ञानं ॥५१९॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy