________________
विशेषाव ० कोट्याचार्य वृत्तौ
!७७९॥
लपि माणुसतं खेत्तं जग्गमतिदुल्लहं भुज्जो । लद्धुं ते दोऽवि पुणो सुदुलहा सोहणा जाई ॥३२६८ || एवं पुवं पुवं लडुम्पि तदुत्तरं पुणो दुलहं । जं माणुस्साईणं सुदुल्लहं तेण सामइयं ॥ ३२६९ ॥ माणुस्सा इस दुल्लभमेकं जह तहेन्दियाईणि । पत्तेयं पत्तेयं दस दिट्ठन्तोवणेयाई ॥३२७०॥ 'माणसे' त्यादि || 'चोल्ल' इत्यादि ॥ मानुषत्वं सकृल्लब्ध्वा जीवः पुनस्तदेव दुःखेन लप्स्यते, बह्वन्तरायान्तरितत्वात्, ब्रह्मदत्तचक्रवर्त्तिमित्रब्राह्मणचोल्लकभोजनवत् चाणक्यपाश कपातवत् भरत क्षेत्र सर्वधान्य मध्य प्रक्षिप्तसर्षपप्रस्थ मेलनवत् स्तम्भशताश्रितशताष्टशतवारा निरन्तरद्यूतजयवत् महाश्रेष्ठिपुत्र नानावणिग्देशविक्रीतरत्नसमाहारवत् महाराज्यलाभस्त्रमदर्शनाकाङ्क्षिस्वष्टकापटिकतादृशस्वप्नदर्शनवत् मन्त्रिदौहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रा रकपरिवर्त्तान्तरितराधावेधवत् एकच्छिद्र महाचर्मावनद्ध महासरः संभूतकच्छ |पग्रीवाऽनुप्रवेशोपलब्धपुनस्तच्छिद्रलाभवत् महासमुद्रमध्यविघटितपूर्वापरान्तविक्षिप्तयुगसमिलास्वयंछिद्रानुपवेशोपलब्धपुनस्तच्छिद्रलाभवत् अनन्तपरमाणु संघातघटितदेव संचूर्णितविभक्ततत्परमाणु समाहारजन्यस्तम्भवत्, एवं खेत्तादीसुवि दस एए चेव दिट्ठन्ता ॥ अन्यकर्तृकी - 'इन्दिये' त्यादि ॥ इन्द्रियलब्धिरोधतो, निर्वर्त्तना तेषामेव, पर्याप्तिः तद्विषयग्रहणसमर्थता निरुपहतो-निर्व्यासङ्गः | खेमं विसयस्स धाया-सुभिक्खं आरोग्गं- नीरोगता श्रद्धा-भावना ग्राहकः - कथयिता उपयोगः - तदभिमुखता अर्थः- अर्थित्वं एतेष्वप्येत एव दृष्टान्ता:, यत आह-भाष्यकारः - 'लधु' मित्यादि । 'एव' मित्यादि । एवं यथा दशभिर्दृष्टान्तैर्मानुष्याद्येकैकं दुर्लभं तथा द्वितीयगाथोक्तान्यपि । आह च- 'माणु' इत्यादि च । युगसमिलादृष्टान्तमाह
जह समिला पब्भट्ठा सागरसलिले अणोरपारम्मि । पविसेज्ज जुगाच्छिदं किहवि भ्रमंती भमंतंमि ॥ ८२७ ॥
मानुष्यादिदुर्लभता
॥७७९ ॥