________________
विशेषाव
कोट्याचार्य
क्व केषु चेति द्वारे
वृत्तौ
১৩৩৩৷৷
॥७७७॥
| पद्येतान्यतरत्सामायिक भरतवत् , एवं शयनादिष्वपि तिस्रस्तिस्रोऽवस्था इति ॥ क्वेति द्वारसारं गतं । केषु इति द्वारमाह| 'सव्वगय'मित्यादि ॥अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति, उच्यते, सर्वगतं सम्यक्त्वं, सर्वद्रव्यपर्यायरुचिलक्षणत्वात् , तथा 'श्रुते' श्रुतसामायिके 'चारित्रे' चारित्रसामायिके न सर्वपर्यायाः, विषय इति शेषः, श्रुतस्याभिलाप्यविषयत्वात् , द्रव्यस्य चाभिलाप्यानभिलाप्यपर्यायोपगूढत्वात, चारित्रस्य च 'पढमम्मि सव्वजीवा' इत्यादिना सर्वद्रव्यासर्वपर्यायविषयतायाः प्रतिपादितत्वात् , देशविरति प्रतीत्य द्वयोरपि-सकलद्रव्यपर्याययोः प्रतिषेधनं कुर्यात् , न सर्वद्रव्यविषयाऽसौ नाऽपि सर्वपर्यायविषयेत्यर्थः, ननु किमिति द्वारे सामायिकविषयस्योक्तत्वात् इह न वाच्यः?, उच्यते, तत्र सामायिकजातिमात्रमुक्तं, विषयविषयिणोरभेदेन, इह तु किंद्वार एव द्रव्यत्वगुणत्वनिरूपितस्य ज्ञेयभावेन विषयाभिधानं अतथादोष इति ॥ अथ कस्मात्सर्वगतं सम्यक्त्वमित्याह-'एगम्पी'त्यादि ॥'यत | यस्मादेकमपि द्रव्यं पर्यायं वा जिनप्रणीतमश्रद्दधतः सतो मिथ्यात्वमुक्तं, अतः सम्यक्त्वं विनियुक्तं सर्वद्रव्यपर्यायेषु,रुचिभावेनेति शेषः।
तथा-'नाणे'त्यादि । यस्माच्छतं श्रुतज्ञानं नानभिलाप्येषु न ध्वनिपरिणामविमुखेषु पर्यायेषु प्रवर्तते, अविषयत्वाच्चक्षुरिव अरूपे, | न च द्रव्यं धर्मास्तिकायाधनभिलाप्यं, किन्त्वभिलाप्यमेव, पर्यायाणामभिलाप्यानभिलाप्यत्वात् । 'सव्वे'त्यादि स्पष्टम् ॥ |'बितीत्यादि ॥ द्वितीयचरममहाव्रते प्रति चरित्रमिह सर्वद्रव्येषु विनियुक्तं,असंभवमाह-नतु सर्वपर्यायेषु, चारित्रं विनियुक्तमिति वर्तते, | सैद्धान्तिकीमुपपत्तिमाह-'सव्वाणुवयोगऽभावाओ'त्ति चारित्रे सर्वपर्यायाणामुपयोगाभावात् प्रतिषेधो विहितः, एतदुक्तं भवतिसर्वपर्यायाणां चारित्रेऽनुपयोगात-सर्वेषां चारित्रेणाव्याप्तेः किलागमोपपत्यैव । अत्राह पर:-'नणु' इत्यादि ॥'नणु'त्ति ननु सर्वसंमतमेतद् यदनन्तानि संयमस्थानानि, तत्रापि पढमसंयमट्ठाणं, किंप्रमाणमित्याह-सव्वणभपदेसाणंतगुणं, महदित्यर्थः, ततो