SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ विशेषाव : कोट्याचार्य वृत्तौ ॥७७६ ॥ कर्मद्वारद्वयमाह - 'दुविहे 'त्यादि ॥ द्विविधायां वेदनायां सातासातायां प्रतिपद्यते स चतुर्णामन्यतरत्, इतरस्त्वस्त्येवेति, असमवहतोऽप्येवमेव सातासात वेदनावत्, समवहतस्तु सप्तविधेन केवलिसमुद्घातादिना न प्रतिपद्यते किन्तु 'पडिवन्नये भयण' ति प्रतिपन्न के समवहते विचारयितुमारब्धे 'भजना' सेवना, विधिरित्यर्थः ॥ निर्वष्टनाद्वारमाह - 'दवे' त्यादि ॥ द्रव्यतो भावतश्च निर्वेष्टयंश्चतुर्णामप्यन्यतरत् प्रतिपद्यते, इतरस्त्वस्त्येवेति तत्र द्रव्यनिर्वेष्टनं कर्मप्रदेशनिशातनं, भावनिर्वेष्टनं क्रोधादिनिशातनं, तदिह सर्वमपि कर्म निर्वेष्टयन् चतुष्टयं लभते, विशेषतस्तु सम्यक्त्वश्रुतदेशसर्वविरत्यावरणमिति प्रतिपक्षः, अधुना अणंताणुबन्धादी संवेढतो न प्रतिपद्यते विरोधात्, सेसकम्मसंवडणं पुण पडुच्च उभयथाऽप्यस्ति । उद्वर्त्तनाद्वारमाह - 'नर' इत्यादि, नरकेषु नरकाद्वा 'अणुब्वट्टे' ति अणुब्वट्टमाणो 'दुगं'ति आद्यं सामायिकद्वयं प्रतिपद्यते, तस्यैव च पूर्वप्रतिपन्न इति, 'तिगचउरो य उच्चट्टे ति उद्वृत्तः पुनर्नरकादुत्तीर्णः पुनः कदाचित्तिगं पडिवज्जे कदाचिच्चत्वार्यपीत्यादि । अस्य भाष्यम्- 'कम्म' मित्यादि गतार्था, नवरं विसेस तदावरणं तत्र द्वितीयस्यावरणं ज्ञानावरणं, आद्यतृतीयचतुर्थानां तु मोहनीयमिति । 'तिरी 'त्यादि स्वधिया वाच्यम् || आश्रवकरणद्वारमाह- 'णीसवेत्यादि । स जीवश्चतुर्णामन्यतरत् प्रतिपद्यते, कर्म निश्रावयन्नेव यत्सामायिकं प्रतिपद्यते, तदावरणं नि| जैरयन्नित्यर्थः, शेषकर्म तु बध्नन्नपि चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नकः पुनर्यः स स्यादाश्रावको, बन्धक इत्यर्थः, निःश्रावको, वाशब्दस्य व्यवहितः सम्बन्धः कोऽस्य निर्वेष्टनद्वाराद्विशेष इति चेद् उच्यते, तत्र कर्मप्रदेशनिशातनाक्रियाकालोऽभिप्रेतः, इह तु निश्रवणस्य निर्जरारूपत्वान्निष्ठाकाल इति, अथवा तत्र संवेष्टयद्वक्तव्यताऽर्थतोऽभिहिता इह तु साक्षादिति ॥ अधुनाऽलङ्कारशयनासनस्थानचंक्रमणद्वारसङ्घातमाह - 'उम्मुक्के' त्यादि । इह केशकटककर्णालङ्कारवखताम्बूलादिषु उन्मुक्तेष्वनुन्मुक्तेषु उन्मुच्यमानेषु च प्रति स्थितिवेदादीनिद्वा राणि ॥७७६॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy