________________
20
विशेषाव ० कोट्याचार्य
,
उक्को सोगाहणमा पुन दोहं दुविहावी" त्यादि । 'न जहण्ण' इत्यादि भाष्यम् । जघन्यावगाहनो गर्भजमनुष्यो न चतुर्णामेकतरमपि | प्रतिपद्यते, कारणाभावात् द्वयोस्तु पूर्वप्रतिपन्नो भवेत् पूर्वभवाप्रच्युतत्वात्, उक्कोसोगाहणयो पुग दुहावि-प्रतिपद्यते प्रतिपन्नश्चेति, वृत्तौ है तिरिक्रवो मत्स्यादिः, स तु त्रीणि, दुविहावीति वर्त्तते । लेश्याद्वारमाह - 'सम्म' इत्यादि ॥ सम्यक्त्वं च श्रुतं चेत्येकवद्भावः, तत् सर्वासु लेश्यासु वर्त्तमानः सन् जीवो लभते, द्रव्यलेश्याखभिप्रायः, चारित्रं तु तिसृष्वेव शुद्धासूपरिमासु 'लभते' प्रतिपद्यते, एवं ।।७७५।। तावत्प्रतिपद्यमान उक्तः, अथ पूर्वप्रतिपन्नमाह - पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु कृष्णाद्यभिधानायां भवतीति । अत्राह - 'नणु' इत्यादि । ननु प्राङ् मतिश्रुतादिलाभोऽभिहितः शुद्धानुपरितनीषु तिसृषु लेइयासु, अतः कथमिह शुद्धास्वशुद्धासु चोच्यत इति, एतदुक्तं भवतियासु मतिज्ञानलाभ उक्तस्तास्वेवास्याप्युच्यतां, अन्यथा विरोधः, तुल्ययोगक्षेमत्वादस्य, उच्यते, नन्वेतदपि स्मर्यतां, यदुत-शुद्धेषु देवेषु द्वय लभ्यते, तथा नारकेषु च ते च भवक्षयं यावदवस्थितद्रव्यलेश्यावन्तो भवन्ति, तदिह द्रव्यलेश्याऽधिकृता सूत्रकृता, नाणेसु तु लब्भंतेसु भावलेसाहिगया, इह तु द्रव्यलेश्या हितभाव इति भावना, एतदुक्तं भवति - देवनारकयोः स्थायिन्यो द्रव्यलेश्याः संक्लेशशुभत्वं तु स्फटिकसंस्थानीयानां यथास्वं द्रव्यलेश्यानामितरेतराभिरलक्तकसंस्थानीयाभिरुप रक्तायां सत्यां स्वच्छे खल्वात्मनि प्रतिभासात्, तद्यथा - आदर्शः शुद्धः स्फटिकः अलक्तकः, तथा आत्माऽन्धपाषाणस्तद्वैमल्याधायकं दैवलौकिकं द्रव्यं, इतरेषां तु द्वे अध्यनवस्थिते, द्रव्यलेश्याश्वेतरेतरभङ्गिन्यस्तक्रेणेव क्षीरमिति न कश्विदोषः ॥ परिणामद्वारमाह- 'वढन्ते' इत्यादि || 'परिणामः' | अध्यवसायविशेषस्तस्मिन् शुभशुभतररूपतया वर्द्धमाने सति 'प्रतिपद्यते ' लभते स भव्य सच्चचतुर्णामन्यतरत्, एवमवस्थितेऽपि शुभे, क्षीयमाणे तु प्रतिपतति शुभे परिणामे न किंचित्प्रतिपद्यते, प्रतिपन्नस्तु त्रिष्वपि परिणामेषु भवेत् || वेदनासमुद्घात
स्थितिवेदादीनिद्वाराणि
1190411