SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ विशेषाव ०. कोट्याचार्य। वृत्तौ ॥७७३॥ %%% प्रतिपद्यमानकः स्यात् न वा, पूर्वप्रतिपन्नश्वास्त्येव, उपरितनसामायिकद्वयस्य तु प्राक्प्रतिपन्न एव, विकुर्वितवैकियशरीरचारणः श्रावकः श्रमणो या, प्रतिपद्यमानस्तु नास्ति, प्रमत्तत्वात् ॥ 'सव्वाओ इत्यादि भाष्यम् ।। उपयोगद्वारे चोद्यं-यदि प्रदेशान्तरे सर्व्वा लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्त इत्युक्तं तदिह कथमुपयोगद्वयेऽपि सामायिकचतुष्कं लभ्यत इत्युच्यते, तस्मान्नानाकारोपयोगे सम्यक्त्वादिलन्ध्या भवितव्यं लब्धित्वादवध्यादिवत् । 'सो' इत्यादि ॥ 'स' प्रदेशान्तरेऽवध्यादिलाभः 'नियमात्' नियमेन प्रवर्द्धमानपरिणामकं - तारतम्येन तथा तथाऽऽविर्भवत्परिणामकं जीवं प्रत्युक्तः, कुत एतदिति चेदाह - किलशब्दोपादानात्, किलशब्द आगमान्तरसंसूचकार्थः, एतदुक्तं भवति एवं तत्सूत्रं 'सव्वाओ' इत्यादि, प्रवर्द्धमानपरिणामाधिकारे वर्त्तत इति सूचनार्थः, इह तु प्रक्रमे योऽवस्थिते परिणामे लभेत, वृद्धिं यात्वा २ सकृदवस्थितः स लभेत द्वितीयेऽपि अनाकारोपयोगेऽपि, कारणस्य संनिहितत्वात् किं तत्र साकारोपयोगेन तस्यापरमधिकमायातमिति, तस्मादिहैवं योऽवस्थितपरिणामो लभते सोऽनाकारोपयोगेऽपि लप्स्यते, लब्धित्वात्, केवलदर्शनलब्धिवत् । एवं स्थिते सत्याह - नायमस्मिन्निदं लप्स्यते लब्धित्वादवध्यादिलब्धिवदित्यनैकान्तिकः, उच्यते, न मया भवत्कृते प्रमाणे एकान्तिकानैकान्तिकेन लब्धित्वाख्येन हेतुना दूपणोद्भावनं क्रियते, न चेदं साधर्म्यसमं जात्युत्तरं, किं तर्हि ?, तुल्यप्रत्यवस्थानात्स्पष्टमेव मे उत्तरं, एतदुक्तं भवति यथा काश्चित्साकारेऽवध्यादिवत् तथा काश्चिदनाकारेऽपि केवलदर्शनवदिति को विरोधः १, यद्येवं ततस्तत्र सर्वशब्दोपादानं किमित्युच्यते - 'पा' इत्यादि । प्रायः प्रवर्द्धमानपरिणामो लभेत येन तेन सर्वसाकारग्रहणता, इतरस्त्ववस्थितो यदृच्छया सम्यक्त्वादि लभते, क्वेत्याह- 'उवे' त्यादि । 'ऊस' इत्यादि ॥ भावयन्नाह - 'उव' इत्यादि । एवं चायमवस्थितपरिणामो ( यत् मिध्यात्वस्यानुदयस्तेन ) न क्षीयते, यत्पुनर्विद्यमानं उपशान्तमुपशमश्रेण्यां ततः परिणामोऽपि न वर्द्धते । 'स्थितिवेदादीनिद्वा राणि ॥७७३॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy