________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७५६॥
20xx
सुत्तत्थतदुभयाई बहुहा वा सुत्तमक्खरसुयाई । खइयाइ तिहा य सामाइयाइ वा पंचहा चरणं ॥ ३१७८॥ दुविहतिविहाइणाऽणुव्वयाई बहुहेगदेसचारितं । वीसुं सब्वाई उण पज्जयओऽणं भेयाई ॥३१७९॥ चवीसयत्थयाइसु सव्वज्झयणेसु वाऽणुओगम्मि । एस चिय निज्जुत्ती उद्देसाई निरुत्तन्ता ॥ ३१८०॥ 'सामा' इत्यादि ॥ सामायिकं प्राग्निरूपितशब्दार्थ 'चः' पूरणे 'त्रिविधं' त्रिभेदं संमत्त अनुस्वारलोपात् सम्यक्त्व सामायिकं तथा श्रुतसामायिकं तथा चारित्रसामायिकं चशब्दः सर्वेषु स्वगतानेकभेदानुकर्षणार्थः, द्वाराणि ॥ व्याचिख्यासुराह-चरितं दुविहं अगार मणगारभेयाओ, आह- किमेवं पढमं ?, भन्नइ - एयंमि नियमसो अण्णे संतित्ति जाणणट्ठा, सव्वत्थवि भावणा एवं। एवं द्वितीयमाह - 'अज्झ' इत्यादि ॥ श्रुतसामायिकं त्रिधा, सूत्रादिभेदात्, चशब्दादक्षरानक्षरतश्च बहुविधं, अत्र प्रक्रान्तोपोद्घातनिर्युक्तेः सकलाध्यय नव्यापितामाह - 'सेसेसुवि' चउवीसत्थयाइसु, आह- समस्तद्वारपर्यन्तेऽतिदेशो न्याय्यः किमयमपान्तरालका ले ?, मध्यग्रहणे आद्यन्तग्रहणमिति न्यायप्रदर्शनार्थम् ॥ अथ त्रिविधमपि सप्रभेदं क्रमेणाह भाष्यकारः - 'सम्म' मित्यादि ॥ संमत्तसामाइयं द्विधा भवति 'निसर्गाद्' यथा 'वपुरेव तवाचष्टे० ' इत्येवमादि 'अभिगमाच्च' साध्वादिसंपर्कलक्षणात् एवं द्विविधं यथा दशधा तथाऽऽह - दशधा वा तत् कुतः ? इत्याह- 'तत्प्रभेदात्' नैसर्गिकाभिगमजप्रभेदभेदादित्यर्थः, तत्रैकैकं 'उवसम' मित्येवमादि, त्रिविधं वेत्याह- कारकं साधूनामित्र, रोचकं श्रेणिकादेखि, दीपकमंगारमर्दकादेखि, यद्वा औपशमिकं क्षायोपशमिकं क्षायिकं चेति ।। 'सुत्तत्थ' पुव्वद्धमुक्तार्थं, तथा 'खइयाइ तिहा' चरणमिति संटङ्कः, तद्यथा - औपशमिकं क्षायिकं क्षायोपशमिकं च, अथवा पञ्चधा यत उक्तं- 'सामाइयत्थ पढमं' इत्यादि । 'दुविहे 'त्यादि || अणुव्रतादि त्वेकदेशचारित्रं बहुधा - दुविहतिविहारणा प्रकारेण 'वीसुं'ति
सामायिक
भेदाः
॥७५६॥