________________
स
विशेषाव यते-'उपजंति वयंति परिणमंति य, द्रव्यप्रभवाश्च गुणाश्चलत्वादेव, न द्रव्याणि, कूटस्थत्वेनाचलनात् , अनेनाभिप्रायेण कश्चि
॥ द्रष्यार्थिककोट्याचार्य । दाह- 'आहावक्खाणमिदमित्यादि गाथात्रयम् ।। आह परः-नन्वव्याख्यानमिदं यदुच्यते पर्यायमात्रमस्य, कुतः?, यतः पर्या-पर्यायार्थिक वृत्ती 2 यनयोऽपि द्रव्यमिच्छति गुणसन्तानं, गुणप्रभवमिति वाक्यशेषः, किन्त्वसौ द्रव्यपर्यायावत्यन्तभिन्नौ मन्यते, भिन्नस्वभावत्वात् चर्चा
गवाश्ववत् ॥ असिद्धो हेतुरिति चेत्तन्न, यतः-'उप्पा'इति 'उत्पादादिस्वभावाः' उत्पादविगमपरिणतिस्वभावाः पर्यायाः, अनेन ॥७५२॥
॥७५२॥ प्रथमपादो व्याख्यातः, द्वितीयमाह-यस्माच द्रव्यं शाश्वतं, तच्चाचलं, ते च पर्यायास्तत्प्रभवाः खलु-अचलद्रव्योद्भवाः, न च तद् द्रव्यं तत्प्रभवं, चलत्वाद् गुणानां, तेन तौ भिन्नखभावाविति सिद्धो हेतुः । प्रकृतमाह-'जीव'इत्यादि ॥ जीवस्य च शाश्वतस्य सामायिकमशाश्वतं पर्यायस्तेन तत्त्वतो जीवाद्भिन्नमर्थान्तरं, एवं चैतद् युज्यते-जीवस्यैष गुण इति, तस्मादिदं व्याख्यानं यथार्थ पर्यायनयः 'इच्छति' संमन्यते, न प्राक्तनम् ।। अस्य परिहारमाह- 'जई'त्यादि ॥ 'इच्छईत्यादि । यद्यस्मिन् व्याख्याने पर्यायनय एव द्वावपि द्रव्यपर्यायौ अचलचलौ संमन्यते ततो ननु द्रव्यार्थिकः किमर्थं ?, केन कारणेन द्रव्यार्थः परिकल्प्यत इति शेषः। अत्र परकीयं परिहारमाह-'जति व मती दोवि जमभिन्ने इच्छति सो'त्ति, यदि चेन्मतिः असौ द्रव्यास्तिकस्तौ द्रव्यपर्यायौ द्वावप्यभिन्नौ मन्यत इत्यस्य विशेषस्य प्राप्तये स कल्प्यत इति, येन चैवं तेनेत्यादि, तेन कारणेनोभयं द्रव्यपर्यायास्तिकोभयं पृथग्भूतं-भिन्नदर्शनं मिथः, कदेत्याह-उभयग्राहेऽपि सति, द्रव्यपर्यायोभयप्रतिपत्तावपीति भावना, न च तौ सम्यग्दृष्टी, कस्मात् ?, यतस्तो मिच्छत्तमिह, किमित्यत आह-'एगत्तादेगत्तण्णत्तगाहातो' ति, एक एकान्तेन एकत्वग्रहात् , अपरस्त्वेकान्तेनान्यत्वग्रहात्, तस्मात् 'दोऽवि जमभिन्ने' इच्छइ सो त्ति । अनेनाचार्यवचनं प्रतिस्खलितं । उच्यते-'एगत्ते'इत्यादि ॥ यद्येवं ततः 'एगत्ते'
SKOREARRANGEXस