SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥७५१॥ जइ वा दव्वादन्ने गुणादओ नूण सप्पएसत्तं । होज व रूवाईणं विभिन्न देसोवलं भोऽवि ॥ ३१७२ ॥ जइ पज्जवोवयारो लयप्पसायपरिणाममेत्तस्स । कीरइ तन्नामन सो दव्वादत्थंतरम्भूओ || ३१७३॥ दव्वपरिणाममेतं पज्जाओ सो य न खरसिंगस्स । तदपज्जवं न नज्जइ जं नाणं नेयविसयति ॥ ३१७४ ॥ 'उप्पज्जती' त्यादि ॥ इह 'उत्पद्यन्ते' समाविर्भवन्ति 'व्ययन्ते च' उच्छिद्यन्ते च, अनेनोत्पादव्ययरूपेण परिणमन्ति गुणाः, चकारस्य एवकारार्थत्वादुत्पादव्ययप्रपञ्चेन गुणा एव परिणमन्ति, न तु कानीत्याह- द्रव्याणि उत्पादव्ययरूपेण परिणमन्ति, तस्मात्पर्याया एव सन्ति उत्पादव्ययपरिणामत्वात् पत्रनीलतादिवत्, न तदतिरिक्तो गुण्यस्ति उत्पादव्ययपरिणामरहितत्वात् वान्ध्येयवत्, | अपिच- 'दव्वप्यभवा य गुणा ण' द्रवतीति द्रव्यं द्रव्यात्प्रभवो येषां ते द्रव्यप्रभवाः, चापिचार्थः, गुणा न भवन्ति, तथा 'गुणप्पभवाई दव्वाई' नेति वर्त्तते, नापि द्रव्याणि गुणेभ्यः प्रभवन्ति, तस्माद्यन्न कारणभावं प्रतिपद्यते नापि च कार्यभावं तद सत् तद्यथा खरविषाणम्, अथवा 'दव्वप्यभवा य गुणा ण, किं तु गुणप्पभवाई दव्वाई' कथमेतद् भवतीत्युच्यते - प्रतीत्यसमुत्पादोपजातगुणसन्ततौ द्रव्योपचारात् तस्मात् 'सोच्चेव पज्जवनयद्वियस्स जीवस्स एस गुणोति प्रक्रमः । अस्य भाष्य - गाथा - 'उप्पाये' त्यादि ॥ गुणाः सन्ति उत्पादविगमपरिणामओ पत्तनीलयाइव, अनभिमतप्रतिषेधमाह - न तु द्रव्यमिष्टं सत्तया, उत्पादादिविरहात् खपुष्पवत्, कथं च तद् द्रव्यं स्यादिति चेदुच्यते- 'ते' इत्यादि ॥ अक्षरघटना - ' ते जप्पभवा होज्ज'तिते-गुणा यत्प्रभवास्तद् यदि द्रव्यं भवेत् ततः 'दव्वं भवेज्ज' तथा यद्वा तत्प्रभवं तेभ्यः प्रभवो यस्य तद् यदि द्रव्यं भवेत्, अस्त्येव तदिति चेदुच्यते-न, यतः प्रतिपक्षास्तित्वयुक्त्या समर्थयन्नाह एवं यतः परस्परप्रत्ययप्रभवाः सन्तीति । तदेवं व्याख्या 4 द्रव्यार्थिकपर्यायार्थिक चर्चा ॥७५१ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy