________________
कोव्याचार्य वृत्ती
विशेषाव०४
अनेन तु श्रुतं, प्रत्याचक्षाणश्च अनेन तु चारित्रं जीवो, नाजीवो, नापि चाभावः,तयोर्बुद्धिपूर्वकारित्वेन प्रत्याख्यानादिविरोधाद्, आ-15 मोबदेतो | त्मनि त्वविरोधात्, 'जति यस्मादेवमत्रान्वयव्यतिरेकता तेन स एव-आत्मैव सामायिक, नाजीवाभावाविति ॥ एतदेव स्पष्टयन्नाह- नया: | 'सामा' इत्यादि । सामायिकभावपरिणतिभावात् सामायिकपरिणामानन्यत्वात्कारणात् ,किमत आह-जीव एव सामायिकम् ,
| तस्य चात्मभावपरिणतिरूपस्य सामायिकस्य विषयनिरूपणगाथाऽभिसम्बन्धनार्थमाह-'सद्धयेत्यादि स्पष्टम् ॥ 'पढममी'त्यादि ॥ ॥७८४॥
॥७४८॥ * प्रथमे प्राणातिपातविरमणमहाव्रते सर्वजीवा-एकेन्द्रियादयो विषयत्वेन समवतरन्ति, सर्वपालनविषयत्वेनोक्तत्वात्तस्य, तथा द्वितीये ६|| सर्वद्रव्याणि धर्मास्तिकायादीनि विषयतया समवतरन्ति, सर्वद्रव्याणीति विषयत्वेनोक्तेः तस्य, एवं चरमे च सर्वद्रव्यमू निषेध| विषयत्वेनोक्तेः, शेषाणि महाव्रतानि खल्वित्यवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, तेषामेकदेशस्तदेकदेशस्तेन तदेकदेशेनैव हेतुभूतेन द्रव्याणां भवन्तीति क्रियाऽध्याहारः, कथं ?, तृतीयस्य ग्रहणधारणीयद्रव्यादत्तादानविरतिरूपत्वात् , चतुर्थस्य च रूपरूपसहगतद्रव्यसम्बद्धाब्रह्मविरतिरूपत्वात् , पष्ठस्य च रात्रिभोजनविरतिरूपत्वात् , एवं तावच्चारित्रसामायिक निवृत्तिद्वारेण सर्वद्रव्यविषयं | भवतीत्युक्तं, एवं श्रुत सामायिकमपि द्रष्टव्यं, श्रुतज्ञानात्मकत्वात्, सम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां श्रद्धानरूपत्वासर्वविषयमेवेति ।। 'ज'मित्यादि व्याख्या, सर्वमुक्तार्थ यावत् तेणत्ति तग्गहणं सामायिकविषयग्रहणम् । तदेवमजीवादिव्युदासेनात्मनि
सामायिकत्वेन स्थापिते उत्तरगाथाऽभिसम्बन्धनार्थमाह-'दव्य'मित्यादि।तदेतत्सामायिक सर्वनयमताधारं सर्वनयानुपाति 'भाज्यं ६ विकल्पनीयं, कथमित्यत आह-द्रव्यं गुण इति वा, किमङ्गीकृत्याह-द्रव्यपर्यायास्तिकनयमतं, तत्र द्रव्यार्थिकस्य 'जीवो गुण'इत्यादि। | इह नयस्य द्रव्यार्थिकस्य सामायिक क इत्याह-'जीवो द्रव्यरूपः, किंविशिष्ट इत्याह-'गुणैः सम्यक्त्वादिभिः औपचारिकैः प्रतिपन्नो
RESOLX
AAAAAAACAR