SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ विशेषात्र० कोट्याचार्य वृत्तौ ॥७४७ न्याय्यः | 'अह' इत्यादि ॥ अथातिप्रसङ्गपरिजिहीर्षया ब्रूषे- प्रत्यासन्नतरं हेतुर्मोक्षस्य, नेतरत् व्यवहिततरमुपकार्यपीति ततो निरुपचरितत्वात्संवर एव मोक्षो न्याय्यः । तस्मात् 'इट्ठत्थेत्यादि । समेतानि सन्ति दर्शनज्ञानचारित्राणि इष्टार्थसाधकानि श्रद्धानज्ञानक्रियागुणत्वात् आतुरस्येष्टसाधनसम्यक्चिकित्सावत् ॥ गतमनुमतद्वारं, अथ द्वितीयद्वारगाथा 'कि' मित्यादि, 'किं'ति किं सामायिकं जीवः १ अजीवः ? उत उभयं । उतानुभयं खरविषाणमिति, आह च- 'कि'मित्यादि ॥ किं सामायिकं जीवः अजीवो वा १, जीवत्वेऽजीवत्वेऽपि च किं द्रव्यं भवेदथ गुणः १, अथवा किं जीवाजीवमयं होज सामायिकं, चेतनाधिष्ठितदेहवत्, उत 'तदर्थान्तरं' जीवाजीवोभयार्थान्तरं स्यात्सामायिकं वन्ध्यापुत्रवत् । तदेवं भावाभावविषयप्रश्न संभवे सत्याह गुरुः - 'आता' इत्यादि । इह सामायिकं कः ? इत्याह'आता खलु' आत्मैव जीव एव सामायिकं, नान्ये विकल्पा इत्यर्थः स च 'पञ्चक्वायंतओ हवइ'त्ति, स च प्रत्याचक्षाणः| प्रत्याख्यानं कुर्वन् भवति सामायिकं, किं कारणं १, क्रियमाणं कृतमिति क्रियाकालनिष्ठाकालयो र भेदाद्वर्त्तमानस्यैवाती तापत्तेः कृतप्रत्याख्यानोऽपि गृह्यते, 'आय'त्ति पुनरात्मग्रहणं किं १, उच्यते स एवात्मा श्रद्धानज्ञान सावद्य योगत्रिनिवृत्तिस्खस्वभावास्थितत्वात् शेषस्त्वनात्मा, प्रचुरघातिकर्मावेष्टितपरिवेष्टितत्वादिति प्रत्याचक्षाणः आत्मा स्यात्, अथवा कुतः १ इत्याह-प्रत्याचक्षाणो वा भवेत्, न च प्रत्याख्यानमन्तरेणान्यत्सामायिकमिति, स च तथा आभवक्षयमपि यावनिश्वयतः, तद् खलु प्रत्याख्यानं, खलुशब्दस्तस्यात्मपरिणतिज्ञापनार्थः, ततश्च तत्सामायिकमात्मपरिणतिरूपत्वाद्विषयमधिकृत्य सर्वद्रव्याणामापाते- द्रव्याणामाभिमुख्येन किं १, निष्पद्यते इति शेषः, तत्प्रति श्रद्धेयज्ञेय क्रियोपयोगित्वात् सर्वद्रव्याणामिति, न च सामायिकप्रक्रमे तद्विषयनिरूपणमसम्बद्धं तदङ्गत्वात्तत्स्वरूपवदित्योघार्थः ॥ अमुमेवार्थ विस्तरेणाह भाष्यकारः - 'सहहती' त्याद्यक्षरघटना, यतो सद्दहति अनेन सम्यक्त्वं गृहीतं, तथा जाणाति मोक्षहेतौ नयाः ॥७४७॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy