________________
वृत्ती
भगवानाह-'जइ वे'त्यादि । यदि च मनुषे 'वीसु' प्रत्येकं मद्याङ्गेषु सर्वथाऽभाव एव भ्रम्यादेः, उच्यते, ततः किं तदङ्गनियमोऽयं | विशेषाव
वायुभूतितत्पिपासुभिरारभ्यते ? येन मद्यार्थी धातक्याद्यन्वेषते, अथवा यद्येवं ततस्तत्समुदायनियमो-मद्याङ्गोपहारनियमः कः?, ततश्च | कोव्याचार्य
वाद: | यतः कुतश्चिदेव भस्माम्लादिमेलकादावपि स्यान्मदशक्तिः । तदेवं श्रुते दार्टान्तिकेऽप्येवमेवाभिलाषिणं ज्ञात्वा शङ्कयते-'भूताण'
मित्यादि । मतित्ति स्यान्मतिः-दृष्टान्तवद्दार्शन्तिकेऽपि व्यस्तभूतं चैतन्यमस्तीत्यतः साधूच्यते भवद्भिः 'मज्जंगेसुं त्वि'त्यादि, ॥५१७॥
॥५१७॥ ततश्च भूतानां पृथिव्युदकदहनपचनानां प्रत्येकमपि व्यवस्थितानां या च यावती चाणीयसी चेतनास्ति, समुदये दरिसणा| ओत्ति हेतुः, अस्य भावार्थ:-तत्समुदये दर्शनात् मद्याङ्गमदवदिति दृष्टान्तः, यथा हि मद्याङ्गेषु मदः पृथगणुत्वान्नातिस्पष्टः तत्समुदा
भिव्यक्तिकत्वात्, एवं पृथगपि भूतेष्वणीयसीयं तत्समुदाये भूयिष्ठत्वात्, उच्यते-'हेतू ण सिद्धोऽयंति तत्समुदाये दर्शनादित्ययं । ४ मा प्रत्यसिद्धः, कुतः, उच्यते-अन्यधर्मत्वेन, तदभावे सति तत्समुदायेऽप्यसिद्धेः, एतदुक्तं भवति-भूतसमुदाये आत्मस्वभावत्वाभावात् ।
नेयं व्यस्तभूतधर्म इत्यतः किमुच्यते-दृष्टान्त इवैतेष्वपि प्रत्येकमियमणीयस्यस्तीति ।स्याद्-अज्ञातोपालम्भोऽयं, तस्या भूतसमुदायोपलब्धिसिद्धेः, न, मृतशरीरे व्यभिचारात्, तत्र वाय्वभावे न व्यभिचार इति चेत्, न, नलिकाप्रयोगप्रक्षेपेऽप्यनुपलब्धेः, तेजो नास्तीति
चेत्, न, तस्यापि तथैव क्षेपेऽनुपलब्धेः, विशिष्टं तेजो नास्तीति चेत् आत्मभाव इत्यारभ्यतां तर्हि भूम्यालिङ्गनं, तस्मादसिद्धो हेतुः॥ | २१३१-३४॥ पराभिप्रायमाह-'नणु'इत्यादि॥ ननु समुदायचैतन्यं तिरस्कुर्वतः प्रत्यक्षविरोधस्तद्यथा न घटे रूपादयः, उच्यते, गौतम ! | तन्न, दृष्टान्तस्याबाधितत्वात्, दार्टान्तिकस्य तु बाधितत्वात्, कुतोऽस्य बावेति चेदुच्यते-अनुमानसद्भावात्, तथाहि-भूतसमुदायव्यति|रिक्तधर्मिधर्मश्चेतनेत्यनन्तरमेव वक्ष्यति, अतो न मम प्रत्यक्षविरोधः, अपि तु-'तुहे'त्यादि तत्र प्रत्यक्षविरोधः, प्रत्येकमपि भूतेष्व