SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥५१६॥ | आदिशब्दादप्तेजोवायवः ते एव भूतानि भवन्ति वसुधादिभूतानि तेषां समुदायः - परस्परप्रत्यासत्तिरिति पृथिव्यादिभूतसमुदयस्तस्मात् सं- एकीभावेन भूता-प्रागसती संजाता इति समासः, काऽसौ ?, चेतना 'इति' एवं 'ते' तव शङ्का, एवं तव बोध इति यदुक्तं भवति, | सा च प्रत्येकमदृष्टाऽपि सती यत्समुदाये दृश्यते, दृष्टे च वक्तुमशक्यत्वात्, दृष्टान्तमाह-मद्याङ्गेषु मदवद्, यथा हि धातकीकुसुमगुडोदकेषु मद्याङ्गेषु प्रत्येकमदृष्टोऽपि समुदाये मदो दृश्यते एवमियमपि पृथिव्यादिसमुदाय इति । दाष्टन्तिकसमर्थनाय दृष्टान्तसमर्थनमाह वायुभूतिः - ' जहे 'त्यादि । यथा 'मद्याङ्गेषु' धातकीकुसुमगुडोदकादिषु मदः 'वीसुं'ति प्रत्येकमदृष्टोऽपि समुदाये भवन् दृश्यते, ततः समुदाये भूत्वा कियन्तमपि कालं परिपालकवशात् कालान्तरेऽतिक्रामति सति 'विनश्यति' अपैति, दान्तिकमाह - तथा 'भूतगणेऽपि' भूतसमुदायेऽपि विशर्वरीभवति सति 'चैतन्य' चिच्छक्तिरपैति, अतो विनिश्चीयते- नानयोः पृथग्भाव इति ॥ २८-३० ॥ भगवानाह - 'पत्तेय' मित्यादि । 'न समुदाये चेता' इति नेयं समुदायमात्रस्य चेतना, 'पत्तेयमभावाओ त्ति सर्वथा पृथगनुपलब्धेः, यत्सर्वथा न पृथगुपलभ्यते तत्समुदायेऽपि न भवति, तद्यथा रेणुषु तैलं यत्तु समुदायेऽपि न तस्य सर्वथा पृथगनुपलम्भस्तद्यथा-मद्याङ्गेषु मदशक्तेः, तथा च प्रत्येकमभावश्चेतनायाः, तस्मान्न समुदयमात्रोद्भवेयमिति प्रसङ्गापादनं, आह- ननूक्तो दृष्टान्तो, न, तस्यान्यथासिद्धत्वात्, तथाहि - मद्याङ्गेषु मदो न सर्वथा नास्त्येव, किं तर्हि ?, अस्त्यपि, अतो वसुधादीति ग्रन्थार्थप्रत्ययेनैवं संशयं मा कृथाः, आह-भगवन्तमेव पर्यनुयुञ्ज्महे, कथं पुनः समुदयचेतना युक्ता ?, उच्यते, यदि दृष्टान्तवद्दान्तिकः स्याद्, आह च- 'भमीत्यादि ॥ यथा 'मद्याङ्गेषु' धातकीकुसुमोदकादिषु भ्रमितृप्तिवितृष्णतादिशक्तिः प्रत्येकमपि दृश्यते, तथा यदि भूतेषु व्यस्तेष्वपि सत्सु भवेत् | चेतना चैतन्यं ततः समुदाये परस्परप्रत्यास त्तौ' होज 'स्यात्, न चैवम् । तदेवं दृष्टान्तबलेन दार्शन्तिकं विघटय्य दृष्टान्तमेव द्रढयन् वायुभूतिवादः ॥५१६॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy