________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७४१॥
तदोषाभिघाति समित्युपष्टम्भकं चेत्यत आह- 'अणु' इत्यादि ॥ इहापात्रो भिक्षुः समस्तामेषणासमितिं न शक्तः, तथा न च सभितो वस्त्ररहितो निक्षेपविषयभूते आदाने व्युत्सर्गे च । 'इय' इत्यादि गाथाः पञ्च ॥ इह च
मोतो एक्कं साणं जावजीविया दिट्ठी । एक्केकस्स य एत्तो दो दो दोसा मुणेयव्वा ॥ नि. ७८५ ॥
मोत्तूण गो माहिलमन्नेसिं जावजीवसंवरणं । कम्मं च बद्धपुढं खीरोदवदत्तणा समयं ॥ ३११४॥ मोतुं जमालिमन्ने बेंत कडं कज़माणमेवं तु । एक्केक्को एक्केक्कं नेच्छइ अब्बद्धिओ दोन्नि ॥ ३११५ ॥ अवरोप्परं समेया दो दोसे देन्ति एक्कमेक्कस्स । परमयसं पडिवत्तिं विप्पडिवत्तिं च समयम्मि ||३११६ ॥ अब्बद्धियस्स दोसे दिति तओ सोऽवि तिन्नि अन्नस्स । तिप्पभिदं तु समेया दो से तिप्पभिइए दिति ॥ ३११७ ॥ सत्या दिट्ठीओ जाइजरामरणगब्भवसहीणं । मूलं संसारस्स उ हवन्ति निग्गन्थरुवेणं ॥ ३११८ ॥
'मोतृण' इत्यादि । एषां मध्ये एकं गोष्ठामाहिलं मुक्त्वा शेषाणां जमालिप्रभृतीनां यावजीविका दृष्टिः, प्रत्याख्यानं प्रतीति शेषः, नापरिमाणं सप्त निह्नवाः प्रत्याख्यानमिच्छन्तीत्यर्थः, आह- अस्य प्रकरणादेवावगम इति किमर्थमुपन्यासः १, उच्यते- प्रत्यहोपयोगेन प्रत्याख्यानस्योपयोगित्वात् मा भूत् कश्वित्तथैव प्रतिपद्येत, अतो ज्ञाप्यते - निश्वानामपि प्रत्याख्याने इयमेव दृष्टिः, एक्केक्कस्स य एत्तोत्ति, अतोऽमीषां मध्ये द्वौ द्वौ दोषौ विज्ञातव्यौ, मुक्त्वैकं वर्त्तते । आह च भाष्यकारः - 'मो तृणेत्यादि । गोष्ठामाहिलं मुक्त्वाऽन्येषां जमाल्यादीनां रोहगुप्तान्तानां यावज्जीवं संवरणमिष्टं, तथा कर्म चात्मना सह बद्धस्पृष्टं क्षीरोदकनदिष्टं, युक्तियुक्त
निह्नवानां दृष्टिदोष
मानं
॥७४१ ॥