________________
विशेषात्र० कोट्याचार्य वृत्तौ
।।७३९॥
वोऽनतिशयव्याप्तत्वं नाम तद्विपर्ययं तीर्थकरातिशयव्याप्तिलक्षणमस्य साधयतीतीष्टविघातित्वाद्विरुद्धः, तीर्थकरातिशयाञ्चाच्छिद्र पाण्यादयः, चतुस्त्रिंशद्वा, तदुच्यते - जिना हि सर्वे निरुपमधृतयो वज्रकटकसमान परिगामा भवन्ति, तथा चतुर्ज्ञानिन छद्मस्थाः सन्तोऽतिशयवन्तच, तथा अच्छिद्रपाण्यादयः तथा जितपरीषहाः, यस्मादेवं - 'तम्हा' इत्यादि । तस्मात् वत्थपत्तरहियावि ते ण जहुत्तदो से | पावंति, तदनङ्गत्वात्, पुस्तकेनेव, एवं- 'तदित्यादि पच्छद्धं । आह- यद्येवं किमुक्तं ?, 'सब्वेऽवि एगदूसेणं' ति ?, उच्यते- 'तहवी' - त्यादि स्पष्टा । प्रयोगः - अकिञ्चित्करमध्येकं वस्त्रमाददति प्रयोजनान्तरोपयोगित्वात् कृतकृत्यप्रथमधर्मप्रवर्त्तनेन नमस्कारवत् । 'जिण ' इत्यादि । जिनकल्पिकादयः, आदिशब्दः स्वभेदख्यापकः, पुनःशब्दस्तीर्थकराद्विशेषणार्थो वर्तते, 'सोपधयः' सोपकरणाः सर्वका| लमेकान्त एवात्र, उपकरणमानं चैतेषां बहु भेदं पुरुषाषेक्षित्वाद्, अतो जिनकल्पिकानामचेलतोद्धुष्यमाणा नार्थवती । एवमभिधाय परा| भिप्रायमाह - 'अरहंता' इत्यादि । यदि च मतं भवतो - यस्मादुक्तेन विधिनाऽर्हन्तोऽचेलास्तेन तेषामपि जिनकल्पिकानामचेलत्वं न्याय्यं, "जारिसयं गुरुलिंगं सीसेणचि तारिसेग होयच्वं । न हु होइ बुद्धसमणो सेयवडो नग्ग वऽण्णो वा || १ ||" इति वचनात्, प्रयोगश्च - स्वतीर्थकरवेषचरितानुविधायिभिः शिष्यैर्भवितव्यं तदादेशकारित्वे सति शिष्यत्वात्, शाक्यबुद्धशिष्यभिक्षुवत्, उच्यते - आर्थिकाभिरनैकान्तिको हेतु:, तथा चाह-यद्येवं ततस्तद्वचनादेव निरतिशयत्वान्माऽचेलो भव, आर्थिकावत् । नन्वेवमेव गुर्वभिप्राय आचेष्टितो भव ति, तथाहि - 'रोगी'त्यादि । जह रोगी वेजस्सोवदेसं कुणइ तह होयरोगो य, णय तब्वेसं चरियं वा करेइ, ण य पउणइ करेंतो' अधिकसन्निपातादिप्राप्तेः । 'तहेत्यादि स्पष्टा, दान्तिकः, प्रयोगस्तु - जिनवैद्य वेषचरितानुकारी तदुपदेशम कुर्वन् न मुच्यते । कर्मरोगात्, अनधिगतशास्त्रार्थकर्मत्वे सति वेपचरितविलम्बित्वात् अनधिगतायुर्वेदसद्भाववैद्य वेषानु कार्यातुरवत् । अपिच - यदिदमु
बोटिक - निरासः
॥७३९॥