________________
विशेषाव
सप्तमो
निवः
॥७२८॥
दनागताद्धा ? उतापरिच्छेदः? इत्याश्रीयतां पक्षः, किंचात:-'जदी'त्यादि, यदि यावदस्ति शक्तिस्तावदहमिदं न सेविष्ये, ततो कोट्याचार्य । ननु सैव यावच्छक्तिः परिमाणं, यतः-'सत्ती'त्यादि॥ 'कालो त्ति काल:-प्रत्याख्यानकालः शक्तिक्रियाऽनुमेयः, शकनदृष्टान्तमाहवृत्ती सूर्यक्रियानुमेयवत् , ततश्चानुमेयपक्षहानिः प्राप्ता, अपरिमाणस्य प्रभू(क)तेऽरूढत्वात्, व्रतभङ्गश्चापान्तरालभोगाद् आशंसादोषश्च तदवस्थ
एव, शक्तरुत्तरकाले सेवयिष्यामीतिकृत्वा॥ अथ परमतदृष्टान्तसाधास्वमतदार्शन्तिकपसाधनार्थमाह-'जहे'त्यादि ॥ यथेह भगवतो ॥७२८॥
दुर्बलिकापुष्पमित्रस्य यावज्जीवया प्रत्याख्यायापि मृतस्य सतः सुरलोके सुरविलासिनीभिः सार्धं भोगान भुञ्जतः न व्रतदोष उक्त |स्तीर्थकरादिभिस्तावत्प्रमाणगृहीतत्वात् , तथा मम जीवतोऽपि शक्त्युत्तरकालसेवायां न दोष उक्तः, तत्प्रमाणगृहीतत्वात् , प्रयोगः| शक्त्युत्तरकालं सेवायां न व्रतलोपः, सेवित्वान्मरणोत्तरकालमिव, उच्यते, यद्येवं ततो बतभङ्गनिम्भयायो भूयो भूयः सेव्यतां पुन: प्रत्याख्यानं गृह्यतां पुनः सेव्यतामित्येवं प्रत्याख्यांनग्रहणानवस्था स्यात् । असुमेवार्थमाह-एत्तिय' इत्यादि ॥ एतावन्मात्रं कालं प्रहरार्द्धप्रहरादिकं शक्तिरितिकृत्वा सेवतो नातिचारो, न व्रतभङ्गः, न चापि प्रायश्चित्तं, न च पञ्चमहाव्रतनियमः स्याद्, एकेनैव संय| तत्वात् , 'एत्तियमेत्ती सत्ति' तिकडे ॥ द्वितीयं विकल्पं प्रत्यनुभाष्य आह-'अहवे'त्यादि पुबद्धं स्पष्ट, तेण मयोऽवि भग्गव्वयो नाम अपूर्णप्रतिज्ञत्वादपान्तराले भोगात् सर्वकालस्य चानागतत्वात् , प्रयोगः-गोट्ठामाहिलमते भवान्तरेवपि भग्नवतो भवति, अवधिकालादारात् प्रतिसेवित्वात् , यावज्जीवकृतप्रतिज्ञजीवप्रतिसेविवत् । अपिच-एवम् 'सिद्धोवि संजयोच्चिय' अनागताद्धाऽभ्यन्तरवर्तित्वाद्यावज्जीवाभ्यन्तरवर्तिसंयतवत् । अपिच-एवमुत्तरगुणसंवरणं पौरुष्यादि तस्याभाव एव ॥ तृतीयमधिकृत्याह'अप' इत्यादि । अपरिमाणस्यापरिच्छेदेऽप्यर्थे कल्प्यमाने स एव दोषो 'यतः' यस्मात्कारणात् 'तेन' तस्मात् कारणात् 'श्रुते'