________________
विशेषाव० कोट्याचार्य
बोटिकनिरासः
वृत्ती
॥७२९॥
॥७२९॥
सूत्रे व्रतभङ्गभयादेव विपक्षपरिहारेण यावज्जीव प्रत्याख्यानं निर्दिष्टमिति । आशंसादोषश्चेत् , उच्यते-'ना' इत्यादि । इह यावज्जीवपरिमाणं प्रत्याख्यानं गृह्णतो नाशंसा-सेविष्याम्यहं मृतः सन् कामभोगान् , किन्तु अपमर्थः-मा मम सुरेघूत्पन्नस्य सतो व्रतभङ्गो | भविष्यत्यतो यावजीवमित्यादेशः, एतदुक्तं-यावज्जीवावधिः स्वायत्तः, परभवश्च परायत्तः, तत्राविरतिकर्मोदयस्यावश्यंभावित्वाने
त्थं प्रत्याख्यानमपि त्वित्थं, अथ चेदसौ सुरेषु नोत्पद्यते, किन्तु मुक्तौ, ततोऽपि को व्रतावकाशः सिद्धस्य । 'जो' इत्यादि । | पुनर्यो देवाङ्गनापतित्वोत्पत्ती, शेषं स्पष्टम् । अपिच-वाग्मिन् ! 'भावों' इत्यादि ॥ इह मनोगतो भावः प्रत्याख्यानं, न व्यञ्जनमात्रं, स चास्ति यदि मरणपरतोऽपि ततो भग्नं, तद्भवभंग्या, अथ नास्ति ततो यावज्जीव किमिति न निर्दिश्यते ?, एतदुक्तं-जीवनकालावधौ प्रत्याख्यानभावे सति किं यावज्जीवं न निर्दिश्यते ?, ननु निर्दिश्यतां भावानुवर्तित्वादुपवासादिवदिति । अपिच-'जती'त्यादि । यदि 'अन्यथैव' अभिप्रेतविपर्ययेण भावो वर्तते यावज्जीवलक्षणः तच 'चेतयतो' जानतः सतो वचनं-प्रत्याख्यान
मन्यथाऽपरिमाणमित्यर्थः, ततो माया तस्य प्रत्याख्यातुः, यद्वा किमभिहिते-यावज्जीवमुच्चरिते दोषः, ननु किं 'भावात् प्रत्या| ख्यानभावादेकजन्मानुसन्धायिनः सकाशाद्वचो गुरु अपरिमाणलक्षणं, एतदुक्तं भवति-भावानुरोधि वचनं भवति, तथा चागमः'अन्नत्थे'त्यादि स्फुटा, तस्माद्यत्किञ्चिदेव गुरुपरिभवाधायि भवद्वचनमिति, शेषं स्पष्टम् ।।सप्तमो निहवः॥
भणिता देशसंवादिनो निवाः, साम्प्रतमनेनैव प्रस्तावेन सर्वविसंवादिनो बोटिकानाह, तत्र कदैते जाताः ? इत्याह - रहवीरपुरं नगरं दीवगमुजाणमजकण्हे य । सिवभूइस्सुवहिम्मि पुच्छा थेराण कहणा य ॥३०५२॥ ऊहाए पुण्णत्तं बोडियसिवभूइउत्तराहिं इमं । मिच्छादंसणमिणमो रहवीरपुरे समुप्पणं ॥३०५३॥
RELEASE