________________
विशेषाव० कोट्याचार्य
वृत्तौ
सप्तमो निहवः
॥७२७॥
॥७२७॥
ALCAMERAR
न तहिं तद् बहिःस्थं नित्यं अन्तर्गतगमनवेलायां पहिरभावात् कञ्चुकवदिति तु व्यतिरेकीत्यतोऽभ्युपेतहानिस्ते इति, इतश्च भावाभ्युपगमो दृष्टः, युगपद् बहिरन्तरयोर्वेदनानुभूतेस्तस्मात्सर्ववृत्तिकर्म अविरुद्धत्वाद्वयोमवदिति ॥ अपिच-यदि कर्मण इह संचार इष्यते | ततोऽयं ते दोषः, इत्याह-'न भइत्यादि । तत्कर्म न भवतो भवान्तरं 'अन्वेति' अनुगच्छति, शरीरदेशाद्देशान्तरसंचारित्वाद्वातपित्तवत् श्लेष्मवद्वा, ननु च भवतोऽप्यागमविरोधः, परलोकवाचित्वात , 'चलमाणे चलिए'त्ति वचनात्, तदन्तर्यात्वा वेदनां करिष्यतीत्यभिप्रायः, एतच्च न, यतः 'चलियन्ति वा निजरियन्ति वा अकम्मीभूयन्ति वा एयटुं' तत्कथं तदन्यत्र संबध्यमानं वेदनां कुर्यात् ? | परलोकस्तु अचलितमनुदीर्ण भवानरं गच्छतीत्यागमात् , अत:-'अन्तोऽवी'त्यादि स्पष्टम् । तथा 'मिच्छादीत्यादि, सर्वशरीर|गतमिथ्यात्वादिप्रत्यया अपि सकारणाः, सर्वशरीरे विद्यमानत्वाद्वेदनावत् ॥ एवं कर्मगः सर्वात्मप्रदेशाविभाग उक्ते पर आह-जीव| कर्मणोरविमोचनं, अविभागस्थत्वात् ज्ञानादिगुणवत् , उच्यते, नैकान्तिको हेतुर्यतः-'अवी'त्यादि स्पष्टा, नवरं यथा मिथ्यात्वादिभिरादानमस्य क्रियते तथा एभिरपि विचटनम् । अपिच-माहिल ! 'कह वे'त्यादि । कथं वा 'आदाने' कर्मणः संमार्जने क्रियाणां| संघाद्यधिक्षेपलक्षणानामन्यत्र त्वया साफल्यमिष्यते ?, नेह तबिघायंमि-कथं वेहानुगताचारादिभिन तद्विचटनमिष्यते ?, येनाप्रतियो| गिनमिव देशमालोक्य प्रतिज्ञायते-न विमोचनं जीवकर्मणोः, एवं चेत् 'तो'त्ति ततः किमेकं पुरुषकारसाध्यं कर्मबन्धनमित्यभिप्रायः, | एकं तु न तस्य साध्यमिति, विचटनमित्याकूत तस्मात् , 'असुभो' इत्यादि स्पष्टा, प्रयोगः-कर्मवियोगोऽनुरूपकारणवान् गुणत्वात् | कर्मसंयोगवत् , एवं तावत् 'पुट्ठो'इत्यादि गाथार्थो दृषितः। अथ यदभ्यधायि 'पञ्चक्खाणं सेय' (हारि० मुद्रिते) मित्यत्र विचारमारिसुराह-'किम' इत्यादि ॥ 'अपरिमाणाए'त्ति यदुक्तं तत्र 'किमपरिमाणं सत्ती' किं यावच्छनोमीत्येतदपरिमाणं ? उत याव
AAAAAAAA
AS