SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥७२६॥ परिमाणपरिच्छिन्नावधिवत् श्वः सूर्योदयात्परतः पारयिष्यामीति प्रसिद्धोपवासप्रत्याख्यानवत् । तथाहि - 'आस' इत्यादि । पुन्ने आउए सेविस्सामि देवादौ भोगानित्येवं या आशंसा तया दूषितं साधुप्रत्याख्यानं, यतश्च श्रुत एवोक्तं परिणामादसुद्धं तद् भवतीत्ययं | पूर्वपक्ष: । ततः - 'विंझ' इत्यादि स्पष्टा । 'कि' मित्यादि । जीवः कर्मणा स्पृष्ट एवेति, न बद्ध इति प्रतिज्ञायां विचारः, किं जीवस्य कर्म प्रतिप्रदेशं भवतो वर्त्तते, व्योमवत्, अथ जीवपर्यन्ते कञ्चुक इवेत्याश्रीयतां पक्षः, किं चात इत्याह, प्रतिप्रदेशं यदि ततः सर्वगतं तत्कर्मेति लब्धं, प्रयोगः - सर्व प्रदेशानुगतं कर्म, देशं देशं प्रति वृत्तेनभोवत्, ततश्च कञ्चुकवदिति साध्यधर्मविकलो दृष्टान्तः, आधे कञ्चुकस्य बद्धत्वाभावात् । द्वितीयं दूषयन्नाह - 'अहं' इत्यादि । अथ जीवाद बहिस्तत्कर्म कञ्चुकवत् ततो भवान्तरालं तन्नानुवर्त्तते, तदनुगमाभावाद् जीवप्रदेश क काष्ठ तानापतेर्बाह्याङ्ग मलवत् । अपिच - 'एव' मित्यादि । एवं सर्वस्य मोक्षः, कर्मानुगमाभावादुभयसिद्धमुक्तवत्, नचासौ सत्प्रतिपक्षः संसारस्य सिद्धत्वात् न चेदेवमपि सति मोक्षस्ततो निष्कारण एव ससंसारः, अथवा भवमुक्तानामपि पुनः संसरणं कर्मरहितत्वाद् संसारिणामित्र, ततोऽनाश्वासो मोक्षे क्रियावैफल्यं च । अपिच-कञ्चु कदृष्टान्तवादिन् ! 'देहंतो' इत्यादि, देहान्तर्या वेदना सा अन्तःकर्माभावे किंनिमित्ता भवतः १ । शेषं स्पष्टम् । 'जती' इत्यादि । यदि च मन्येथाः - बाह्यवेदनानिमित्ता साऽन्तर्वेदना, ततश्वोक्तदोषाभाव इति, उच्यते यद्येवं ततोऽसावन्तर्वेदना 'तदभावे' बाह्यवेदनाभावे न भवेत्, दिट्ठा य'सा' अन्तर्वेदना 'सुबहुशः' सुबह्वीवराः, बाह्यवेदनामन्तरेणापि न चासौ निष्कारणेत्यतोऽन्तः कार्यमुपलभ्य कारणं गमयति, तच्च कर्मेत्यभिप्रायः । कञ्चुकवृत्या त्वक्पर्यन्तं सत् कर्मान्तिर्वेदनां करिष्यतीति चेदुच्यते- 'जइ वे' त्यादि गतार्था । 'अह० मती' त्यादि । अथ स्यान्मतिर्देवानांप्रियस्य तद् बहिर्वृत्ति कर्मान्तरपि संचरति अन्तर्वेदनाख्यकार्यान्यथानुपपत्तेः, उच्यते, सप्तमो निह्नवः ॥७२६ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy