________________
विशेषाव कोट्याचार्य वृत्तौ
॥७२०॥
भवति - पृथिवीदेशे लेष्टौ समानजातिलिङ्गत्वेन संपूर्णतामध्यारोप्य तदेकदेशे नोपृथिवीत्वमुपचर्यते व्यवहारेण । 'इहरा' इत्यादि ॥ इतरथा परमार्थतोऽसावपि लेष्टुदेशः पृथिव्येव समानजातिलक्षणत्वाल्लेष्टुवत् । तदेवं सामस्त्येन पृथिवीत्वे सत्याह पराभिप्रायं - 'जदि व'त्ति यदि च मन्यसे 'देसो 'त्ति देशोऽसौ नोपृथिव्यभिधानः स्कन्धः लेष्टुर्दलन्तिकट्टु, ततः इहरा पुढविच्चिय सोत्तीत्यादि न वक्तव्यमिति, उच्यते, 'ततो' ततः तद्देशवादिन् ! 'लेडूवि भूदेसो' आस्तां तावदन्यत्, ततश्च - 'देही 'त्यादि ॥ देहि भुवं भणिये सव्वा आणेया प्रसज्यते, प्रसज्यतामिति चेदुच्यते न चासौ सर्वा शक्या शक्रेणापि तावदानेतुं, किमुतानेन कुत्रिकापणसुरेण १ ॥ अथाधिकृतव्यवहारघटनार्थ दृष्टान्तमाह – 'जहे' त्यादि । घटमानयेत्येवं सामान्येनोक्तेऽपि न सर्वानयनसंभवः, किन्त्वेकमेव किञ्चिद्देशाद्यवच्छिन्नमालोक्यार्थवशात् समर्पयति प्रेक्षावान्, एवमसावपि सुरः, प्रकृतिनोकारात्रधिकृत्य यथासंख्यं दाष्टन्तिकमाह - 'पुढवी 'त्यादि स्पष्टा ॥ उक्तमेवार्थं स्पष्टयन्नाह - 'लेड' इत्यादि । यद्यपि समस्ता अविशिष्टा पृथिवी तथाऽपि लेष्टुद्रव्यापेक्षया, किमुक्तं भवति १-'तदेकदेशत्वात्' लोष्टैकदेशत्वात् तस्मिन् लोष्ठदेशे उपचारान्नोपृथिवी भण्यते, इतरथा पृथिव्येव सा तल्लक्षणत्वात् । दारं । 'पडी' त्यादि ॥ णो अपुढवी पुढविचिय द्वौ प्रतिषेधौ प्रकृतगमकावितिकृत्वा, 'देसनिसेहेऽवि तद्देसो'त्ति देशनिषेघे वा | नोशब्दस्तदेशो नोअपृथिव्या जलादिरूपाया एकदेशस्तं ददाति । एवं- 'उव' इत्यादि । 'सो'त्ति सः कुत्रिकापणसुरो जाइओ संतो संतं वत्युं देह, कहविहं १ किं वा तदित्यत आह- 'त्रिविधं' त्रिप्रकारं 'भुवं' लोष्टं 'अभुवं' जलादिवर्ग 'नोभुवं' तदेकदेशं, कथमित्यत आह- 'उपचारात्' व्यवहारेणेत्यर्थः, यत आह- 'निच्छपओ भुवं' देशदेशिनोरेकत्वात्, तथा 'अभुवं' जलादिवर्ग देशदेशिनोरभिन्नत्वाद्, अतः कतमे ते त्रयो राशयो, न तु द्वाविति १, पृथिवीप्राधान्येनेत्थमभिधायान्येषामप्यतिदेशमाह - तहा सव्वाई
षष्ठो
निह्नवः
॥७२० ॥