________________
निहवः
विशेषाव. कोट्याचार्य
वृत्ती ॥७१९॥
॥७१९॥
दि॥ तेनासौ षण्मासान् विकृष्य जितः, कु:-भूमिस्तासां कूनां त्रिकं कुत्रिक त्रिभूमिकगृहवत् त्रयो लोकाः कुत्रिके स्थिताः पदार्था कुत्रिकास्तास्थ्यात्तद्वयपदेशः, कुत्रिकमापणायते इति कुत्रिकापणः-सर्वद्रव्यविक्रयी देवः पुण्याराधितभाण्डागारिकवत् , धातुमूलजीवेषु वा जातं त्रिज भूम्यां त्रिजं कुत्रिज तस्यापणः, तत्प्रतिबद्धान्याहरणानि यानि चोतालं सयं तेण, इह च षट् पदार्थाः द्रव्यगुणकर्मसामान्यविशेषाः, षष्ठकश्च समवायः; तथा चाह-'भूजले त्यादि ॥ 'रूवेत्यादि । 'इच्छा' इत्यादि ।। 'सत्ता' इत्यादि । "अविकप्पा सत्ता खलु तिसक्करी होइ तू महासत्ता ॥ एत्थ विवजयमन्ने सामनविसे पदव्वतं ॥१॥" एवं पयत्था छ, प्रभेदैश्च नवादिभिः षट्त्रिंशद्भवति । अथैते षट्त्रिंशदपि भेदाश्चतुर्भिर्गुण्यमानाश्चतुश्चत्वारिंशदधिकं शतं भवति । कथमित्यत आह-'पग'इत्यादि । तत्र प्रकृतिः-निरुपमवत्त्वात्तत्स्वरूपं तया प्रकृत्या, तथा अकारेण-नत्रा लुप्तनकारेण पयुदासवृत्तिना, तथा नोकारस्तद्देशविशेषप्रतिषेधार्थः तेन, उभयनिषेधः प्रतिषेधद्वयरूपः प्रकृतगमकस्तेन, एवं चतुष्केण भेदेन 'सन्वेत्ति सर्वे द्रव्यादयः समवायान्ता गुणिताः सन्तः चोयालसयं पुच्छाणं, तदेताभिः पृष्टो देवः प्रतिवचनं वाचा प्रयच्छतीति शेषः॥ अथ प्रथमद्रव्यभेदमधिकृत्याह-'पुढवी'त्यादि। | 'पुढवित्ति रूपरसगन्धस्पर्शवतीं पृथिवीं प्रयच्छेत्येवं याचितः सन्नसौ 'ददाति' प्रयच्छति लेष्टुथिने, आह-अप्रमाणोऽसौ, अन्ययाचितऽन्यदानाद्विपरीतसूपकारवत् , उच्यते-लोष्टस्तद्दशोऽपि सन् पृथिव्येव, समानजातिलिङ्गत्वाल्लोकशास्त्ररूढत्वाच्चेत्यदोषः। तथा अपृथिवीं देहीति पर्युदासवृत्त्या याचितः संस्तोयादिवर्ग दर्शयति-दारं । 'देस'इत्यादि । देशप्रतिषेधपक्षे नोपृथिवीं प्रयच्छेतियाचितो ददाति 'लेष्टुदेशं', लेप्टोरेकप्रदेशादिखण्डमिति भावना, आह -लेष्टुरेव पृथिव्येकदेशत्वात् नोपृथिव्यस्तु, किं तद्देशस्य नोपृथिवीत्वाभिधानेन ?, उच्यते, अस्य लेष्टुदेशस्य द्रव्यापेक्षो-लेष्टुद्रव्यापेक्षया देशोपचारः क्रियते, न पुनः प्रकृत्यपेक्षया, एतदुक्तं
4
%-EASES