________________
षष्ठो
विशेषाव. कोट्याचार्य
निहवः
वृत्ती
॥७१७॥
॥७१७॥
न्तरालगताविव ॥ अथ ब्रूयात्-गृहकोकिलापुच्छच्छेदे जीवस्य खण्डं नष्टं, छिन्नत्वात् १. उच्यते, असिद्धो हेतुः, यतः-'दव्वा' इत्यादि। न च खण्डशो नासोति, न जीवश्छिद्यते दह्यते वेति प्रतिज्ञा, हेतुमाह-अमूर्तद्रव्यत्वादकृतकत्वादविकारित्वाद् अभूतविनाशकारणत्वान्नभोवत् ॥ आह-प्रत्यक्षविरोधिनी प्रतिज्ञा, द्वितीयदलदर्शनाद्, उच्यते, तदौदारिकस्य, न तु जीवदेशच्छेदः, तथाऽभ्युपगम्येतासौ, ततोऽयं प्रसङ्गस्ते-'नासे य'इत्यादि ॥ नाशे च च्छेदेन जीवदेशस्येष्यमाणे सर्वनाशोऽपि जीवस्येति प्रतिज्ञा, खण्डशश्छिद्यमानत्वात्पटवत् , ततोऽपि किमयं प्रसङ्गः इत्याह-णासो य न भवतोऽपीष्टः, किमिति ?, यतोऽसौ जिनमतत्यागः, कारणे कायोपचारात् । पराभिप्रायमाह-'अहं'इत्यादि । अथासावच्छेद्यजीवः संघातभेदधर्मा कल्प्यते सावयवत्वात् पुद्गलस्कन्धवत् , तथापि सर्वेषां सर्वलोकापन्नानां जीवानां परस्परसङ्करतः सुखादिगुणसङ्करः प्राप्तः, अन्योऽन्यसंस्कारविशिष्टानामात्मप्रदेशखण्डानां परस्परमभिसमवायात् ॥ 'अह' इत्यादि । अथैतद्दोषभयात् स्कन्धवदवयविच्छेदो नाभ्युपगम्यते, किं तर्हि , धर्माधर्मास्तिकायादिदेशवत् , तओ-असौ देशः 'अविप्पमुक्कोवि' तत्रस्थ एव अविच्छिन्न एव सन्निति भावना, किमत आह-नोजीवः सकलजीवत्वाभावाद्,
उच्यते-ततः प्रतिपदेशं 'ते' तव 'जीवे' आत्मनि असंख्येया नोजीवाः प्राप्ताः, जीवदेशत्वात्तत्पुच्छजीववत् , अत एव नास्ति का जीवस्ते, सर्वेषां नोजीवत्वात् । अत्रैवोपचयमाह-एवं'मित्यादि ॥ एवमजीवा अपि घटादयः प्रतिदेशमेदेन नोअजीवा इतिकृत्वा न
सन्ति अजीवाः केचन, तदभावे कतरे त्रयो राशयो यैरसौ परिव्राट पराजित इति । ननु द्वौ तौ नोजीवनोअजीवराशी, तस्मान्न जी| वश्छिद्यत इति स्थितम् । अभ्युपगम्याह-'छी'त्यादि ॥ छिद्यतां वा जीवः, प्रतिपन्नं नामेदं मया, ननु कथमसौ छेदः 'तल्लक्षणोऽपि | जीवलक्षणोऽपि नोजीवः ?, नन्वसावपि जीव एवेति गर्भः, बाधामाह-अथैवं तल्लक्षणोऽपि नोजीवोऽभ्युपेयते 'तो'त्ति ततः अजी