________________
विशेषाव कोट्याचार्य वृत्तौ
॥७१६॥
णात् न च जीवः, एकदेशत्वात् येन कारणेनैवं तेन नोजीवोऽस्तीति शेषः । तथा श्रुतेऽप्यजीव प्रज्ञापना यस्मादशविधोक्ताऽतो|ऽप्यस्त्ययमित्याह - 'धम्मादी' त्यादि ॥ जं च अपिहुब्भूतोऽवि देशो पिहं वत्युं देशिनः सिद्धान्ते पठ्यत इति शेषः कुत इत्यत्र | युक्तिमाह-धर्मादिदशविधादेशतः, अतः किं पुनः कारणं छिन्नं सत् गृहकोकिलापुच्छं पृथग्भूतं न भविष्यति देहाद् ?, भविष्यत्येव, गृहकोकिला पुच्छं पृथक्पदार्थः देशत्वाद्धर्मास्तिकायदेशवत् 'तेण णोजीवो' ति साध्यम् ॥ 'इच्छतीत्यादि ॥ जं च समये - अनुयोगद्वारेषु समभिरूढोऽवि 'जीवप्रदेशं' जीवैकदेशं नोजीवमिच्छति, 'से य पदेसे णोजीवे 'त्ति वचनात् तेन कारणेनास्त्यसौ, प्रयोगःगृहको किलाजीवैकदेशो नोशब्दोपपदं वस्तु समभिरूढनयमतत्वात् घटदेशो नोघटो जह वत्ति नोघटवत् । यदुक्तं 'धर्मादी'त्यादि, अस्य तावत्परिहारमाह- 'जई'त्यादि सुगमम् ॥ न च धर्मास्तिकाय देशस्ततोऽन्य एत्र, तत्संबद्धत्वाद् गृहकोकिलापुच्छवदिति, आह च'गिह' इत्यादि ॥ ननु गृहकोकिलापुच्छे छिन्नेऽपि तदन्तरालसम्बन्धः 'तयोः' गृहकोकिला पुच्छयोरपान्तराले सम्बन्धः - संयोगः | सूत्रेऽभिहितः केषां ? - जीवप्रदेशानां, अविच्छिन्नत्वात् मृणालदलदलिततन्तु सङ्घातवत् । अथ कस्माद् दृष्टान्तवत्तेषां न साक्षाद् ग्रहणं १, अत उच्यते - सूक्ष्मत्वात्कार्मणस्य अमूर्त्तत्वाच्चात्मप्रदेशानामिति । तथाहि - 'गज्झ । ' इत्यादि । यथा प्रदीपरश्मयो नाकाशे ग्राह्या भवन्ति, किन्तु मूर्तिगताः, तथा किमित्यत आह-तथा जीवलक्षणान्यात्मप्रदेशाः कर्मानुविद्धत्वेन मूर्त्तत्वे सत्यपि न तदपान्तराले लक्ष्यन्ते, अपि तु देहे । इदं च सूत्रे श्रूयते - 'देह' इत्यादि ॥ इह निरतिशयो देहरहितं न गृह्णातीति सिद्धं, तथा नातिसूक्ष्मदेहं कार्मणमाहारकं वा, चशब्दात्सूक्ष्मनिगोदादि च, अतोऽप्युभयकोटिमध्यवर्ध्यात्मप्रदेशोपलम्भो न भवतीति प्रक्रमः, आह-किं तेषामनलजलशूलादिभिदहिक्केदवेधनानि भवन्ति, उच्यते न च से तस्स जीवस्स तेष्वात्मप्रदेशेषु केनचिद् बाधा भवति, सूक्ष्मकार्मणाहारकशरीरस्थत्वादपा
पष्ठो निह्नवः
॥७१६ ॥