________________
विशेषाव: कोट्याचार्य
वृत्तौ
॥७०८ ॥
**
तस्माद्विनियोगात्, जलावगाहिपादतलेऽपि प्रणिधानं विनियोगान्तरं तस्य लाभः - प्रप्तिरभ्युपगमो विनियोगान्तरलाभः तस्मिन् समये एकस्य कथं मनसः १, विरुद्धार्थाधिगन्तृत्वे वा किमत्र 'नियमेन' परिगणितक्रियानुभवलक्षणेन १, न किञ्चिदित्यर्थः, तत एवं स्थिते प्रतिवस्तु अङ्गीकृत्य जलरसादिलक्षणमसंख्येया अनन्ता वा यन्न विनियोगा भवन्ति मनसस्तत्र को हेतुः १, एतदुक्तं भवति - एवमस्योपयोग बहुलताऽप्यस्त्विति । चोदक आह-इष्यत एव - 'बहु' इत्यादि ॥ ननु सूत्रे बहूनां बहुविधानां च ग्रहणे उपयोग बहुताऽभिहिता, तस्मादेवमपि सिद्धसाध्यता, न पुनर्बाधेति एतत्परिजिहीर्षया सरिराह - तद् बहूनां बहुविधानां च ग्रहणं 'अनेक ग्रहणमेव ' | सामान्यावग्रहणमेव तदित्यर्थः, व्यवच्छेदार्थमाह-उपयोगानां अनेकता तत्र नास्ति, अपायस्य अक्रमेणाजायमानत्वात् तेषां च भिन्नलक्षणत्वादित्यभिप्रायः । तृतीयपादमधिकृत्याह चोदकः - 'समय' इत्यादि । यद्येकस्मिन् समयेऽनेकेषां स्वलक्षणादिभिन्नानां ग्रहणं ततः शीतोष्णद्वयवेदने एकस्मिन् समये गृह्यमाणे को दोषः ?, उच्यते- केन वा भणितं दोषः १ वेदनामात्रे वेद्यमाने, नन्वावयोरुपयोगद्वये विशिष्टेऽयं विचारो वर्त्तते, अन्यस्मिन् समयेऽर्ककिरणवेदनक्रियाऽन्यत्र च शीतवेदनक्रियेति । पुनरपि पूर्व गायो तरार्द्धमधिकृत्य विवक्षितवस्तुव्युत्पादनार्थं चोद्यं कारयन्नाह - 'समयेत्यादि ॥ एकस्मिन् समयेऽनेकग्रहणे सति वाचोयुक्त्या एकानेकोपयोगभेदः को ? येनोच्यते-उवओगाणेगया णत्थित्ति ?, उच्यते - 'सामण्णमेगजोगो त्ति एकोपयोगोऽभिधीयते यः सामान्योपयोगः, दृष्टान्तमाह-स्कन्धावारोपयोगवत् || अमुमेव स्पष्टयन्नाह - 'खन्धा' इत्यादि । समयं खन्धावारोऽयमेवं जा सामण्णमेस मेगोवयोगता सा एगोवयोग इति वक्कसेसो, प्रतिवस्तुविभागः पुनर्हस्त्यश्वरथपदात्यापगध्वज चक्रासियष्ट्यादिलक्षणो यस्ते को योगा इति ॥ ‘ते श्च्चियेत्यादि ।। एवं स्थिते त एव विशेषा 'न सन्ति' न गृह्यन्ते 'युगपत् ' समकं सामान्येन त्वनेकेषां ग्रहगमविरुद्धं,
****
पंचमो निह्नवः
॥७०८||