SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ निवः ॥७०७॥ आह-तंति तदन्तःकरणं 'तन्मात्रज्ञानहेतुः' प्रतियोगेन्द्रियोपलब्धिमानहेतुः, इतिशब्दो वाक्यपरिसमाप्त्यर्थः, येन चैवं तेन किविशेषाव० मित्यत आह-'णो ते' इत्यादि, तेण जुगवं दो किरियाओ णोवलभते उपलब्धा, प्रयोगः-पादशिरोगतशीतोष्णवेदने न युगपद्वेदयते, कोट्याचार्य वृत्ती भिन्नदेशत्वाद् उजयन्तशत्रुञ्जयशिखरस्पर्शनाद्वयवदित्यसिद्धो हेतुः। अपिच-'उव' इत्यादि । सर्वात्मप्रदेशैरुपयोगात्मको जीवः, स च उपयुज्यते' दत्तावधानो भवति येनोपकरणेन्द्रियदेशेन यस्मिन् युगपत्संनिहितेऽपि विषये शीत उष्णे वा यं काल रात्रा॥७०७|| वनि वा 'सः' जीवः 'तन्मयोपयोगो भवति' उष्णका(शीतोष्णान्यतरार्थोपयोगात्मक एव भवति, नान्योपयोगोऽपि, तावन्मात्रीपक्षीणशक्तिकत्वात् , उदाहरणमाह-यथेन्द्रोपयुक्तो माणवः तन्मयोपयोग एव, नान्योपयोगात्मकोऽपि । आह च-'सो' इत्यादि स्पष्ट, 'केण वंऽसेणं'ति एकात्मप्रदेशोपयोगानुरोधित्वादवयविनः॥प्रागुक्तं प्रयोगेणाह-'समया'इत्यादि । भिन्नकालवेद्यमपि क्रियाद्वयं युग पदिव मन्यसे, समयादिसूक्ष्मत्वादुत्पलपत्रशतव्यतिभेदमिव अलातचक्रभ्रमणक्रियामिवेति, कदाचित् कश्चिदभिदध्याद्-युगपदेव मनः &| पञ्चेन्द्रियाधिष्ठातृ भविष्यतीदमाशड्क्याह-'चित्तंपी'त्यादि ॥ इहान्तःकरणमपि 'सम' एककालं नेन्द्रियाणि 'समेति' अधि ष्ठयातिष्ठ)ति-अह य समयं व सव्वोवलद्धी पडिभासइ, किं कारणं , अत्रोपपत्तिमाह-क्षिप्रचारीतिकृत्वा, दृष्टान्त उच्यते-यथा शुष्कशष्कुलीदशने युगपत्सर्वेन्द्रियोपलम्भः, न च तत्तथा, आशुसंचारित्वान्मनस इति, एवं च कृत्वोक्तं-युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति । एवम्-'सब्वे' इत्यादि । यदोक्तेन विधिना सर्वेषामिन्द्रियाणां भिन्नोपयोगेन भवेत्संचारो दुर्लक्ष्यो यदि नाम तन्ननु 'एगे' | त्यादि स्पष्टं, दुर्लक्ष एकेन्द्रियोपयोगकालभेदः सूक्ष्मत्वात् पञ्चेन्द्रियोपयोगकालभेदवत् । अपिच-'अन्नवी'त्यादि स्पष्टा, नवरमन्यच्छीतमुष्णं चेति । अथवा-'विणी'त्यादि ॥ विशिष्टो नियोगो विनियोगः मनसः सूर्यगभस्तिपरितप्यमानशिरःप्रान्तदेशे प्रणिधानं ROLORCA ORN ARRRRRRE5CAR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy