SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥७०६ ॥ किरिया वेइज्जइ-सीया वा उसिणा वा, अहं चेयाओ दोऽवि किरियाओ वेदेमि, अओ दुट्टु भगवया भणियं, युगपत्क्रियाद्वयवेदनात्, न च दृष्टेऽनुपपन्नं नाम, ताहे उत्तरिऊण आयरियं वन्दित्ता उग्गाहेइ, आयरिया भणति मा अजो ! एवं पन्नवेह, कालस्य सौक्ष्म्येण | भेदानुभवस्य दुर्लक्ष्यत्वात्, समयमनसोरत्यणीयस्त्वात् उत्पलपत्रशतव्यतिभेदवत्, ततो अप्पडिवञ्जन्तो उग्घाडिओ हिंडन्तो रायगिहं गओ महातवोतीरप्पभे पासवणे, तत्थ मणिनागो नाम नागो, तस्स चेतिए ठिओ, सो तत्थ परिसामज्झे एवं पण्णवेइ, ततो मणिनागेण भणिय- अरे दुट्ठसेहा ! कीस एवं पन्नवणं पन्नवेसि ?, एत्थ चैव ठितेण भगवया वागरियं-जहा एगं किरियं वेदेइ, तो छड्डेहि एयं गाहं, मा ते विवाएस्सं, ततो विहिणा पडिक्कन्तो । तथा चाह-'नई'त्यादि गतार्था || 'नदी' त्यादि स्फुटार्था ॥ 'लग्गो' इत्यादि || आर्यगङ्गस्य लग्नोऽयमसद्ग्राहो, यदुत - सर्वोऽपि प्राणी युगपदुभयक्रिये वेदयते, 'यत्' यस्मात् 'मे' मम द्वे अपि शीतोष्णवेदने समकं, एवं सर्वोऽपि युगपद्विरुद्धक्रिये वेदयते, एककाले उभयोर्वेदयितृत्वादहमिव पादशिरोगतशीतोष्णवेदनयोः ॥ गुरुर्हेतोरपक्षधर्म तामाह - 'तर' इत्यादि । गुरुणाऽभिहितः - 'अयं' उभयानुभवः 'तरतमयोगेन क्रमेण, न तु यौगपद्येन, आह-उक्तं नहि दृष्टेऽनुपपन्नं नामेति, आह- 'तुमं न लक्खेसि' त्वं न लक्षयसि क्रमानुभवं, तयोर्हेतुमाह - समय त्रुटिलवादीनामतिसुक्ष्मत्वात् मनसचातिचलसूक्ष्मत्वेनाशुसञ्चारित्वात् तस्मादसिद्धो हेतुः । इतश्वोभयोरेककालवेदयितृत्वमसिद्धमित्याह- 'मुहुमेत्यादि ॥ चित्तं मनोऽन्तःकरणमिति पर्यायाः, तत्किं विशिष्टमित्याह-सूक्ष्मं, तथाऽऽशुचरं च तत्र सूक्ष्मं मनोद्रव्यवर्गणाप्रचितत्वेनातीन्द्रियत्वात् न | लौकिकानामिवाणुमात्रत्वादणीय इत्यर्थः, आशुचरं तु शीघ्रचारित्वात् बहिर्निस्सरणाभावेन स्वशरीरेन्द्रियद्वारेषु क्रमोपयोगहेतुत्वात्, ततश्च येन येन निर्वृत्युपकरणद्रव्येन्द्रियप्रदेशेन यस्मिन् २ काले संबध्यते - साहचर्यमात्रं प्रतिपद्यते तस्मिन् २ काले तत्किमित्यत पंचमो निह्नवः ॥७०६ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy