________________
विशेषाव कोट्याचार्य वृत्ती
॥५१३॥
ARRORA%ARSA
एवेत्यवधारणार्थः, ततश्च कर्मप्रधानेश्वरादिव्यवच्छेदः, 'इद'मितीदं सर्व प्रत्यक्षं वर्तमानं सचेतनाचेतनं 'ग्निमिति वाक्यालङ्कारार्थः
अमृतजीयद्भूतं-यदतीतं सगरदिलीपादि, यच्च भाव्यं यच्च भविष्यत् कल्क्यादि, मुक्तिसंसारावपि स एवेत्युक्तं भवति, 'उतामृतत्वस्येशान' इति | वेन संबंधः | उतशब्दोऽप्यर्थः, अपिशब्दश्च समुच्चये, 'अमृतत्वस्य' अमरणभावस्य, मोक्षस्येत्यर्थः, ईशानः-प्रभुश्चेत्यर्थः, यदिति यच्चेति च
शब्दलोपात् अन्नेन-आहारेग अतिरोहति-अतिशयेन वृदिमुपैति यदेजति-यच्चलति पश्वादि यन्नजति यन्न चलति पर्वतादि यद् दूरे मेदि यत् उ अन्तिके उशब्दोऽवधारणे अन्तिके-समीपे यत्तत्पुरुष एवेत्यर्थः, यदन्तर्मध्येऽस्य चेतनाचेतनस्य सर्वस्य,
॥५१३॥ &यदेव सर्वस्यास्य बाह्यतस्तत्सर्व पुरुष एव, पुरुषेणव व्याप्तमतो नास्ति कर्मेति मन्यसे, 'ताणं च पयाणमयमत्थोत्ति तेषां चैवं.
जातीयानां पदानामयमर्थ:-अभिप्रायो वेदे पठयते, तथाहि-विधिवादार्थवादानुवादा इति परिभापा, तत्र 'अग्निहोत्रं जुहुयात् स्वर्गBI कामः' इत्येवंजातीयो विधिवादः । अर्थवादस्तु द्वेधा-स्तुत्यर्थवादो निन्दार्थवादश्च, तत्र सर्वविद्यस्यैषा महिमा भुवि दिव्ये ब्रह्मपुरे - होष व्योमन्यात्मा सुप्रतिष्ठितस्तमर्थ वेदयतेऽथ यस्तु स सर्वज्ञः सर्ववित् सर्वमेवाधिवेश, एकपा पूर्णयाऽऽडुत्या सर्वान कामानवाप्नोति,
एवंजातीयः स्तुत्यर्थवाद इति, अर्थवादता त्वग्निष्टोमादेरकरणप्रसङ्गात् , निन्दार्थवादस्तु 'एष वः प्रथमो यत्रो योऽग्निष्टोमः, योऽनेनानिष्ट्वाऽन्येन यजते स गर्तमभ्यपतत्', अत्र पशुमेधादीनां प्रथमकरणं निन्द्यते । अनुवादस्तु 'द्वादश मासाः संवत्सरः, अग्निरुष्णो-| ऽग्निहिमस्य भैषज' मित्येवंजातीयकः, तदत्र 'पुरुष एवेदं ग्नि' मित्यादीनि पुरुषस्तुतिविधायकानि, अद्वैतभावनाजनकत्वेन जात्यादिमदकरणनिवारणार्थत्वात् , न पुनरेवमर्थान्यन्यार्थानि चेति, तदेवं प्रत्यक्षानुमानागमैर्जीवाद्यस्तित्वाविनाभूतं कर्मावबुध्य भगवानग्नि भूतिरिन्द्रभूतिरिव भगवन्तमुवाच-भगवन् ! न्यायप्राप्तोऽहं तवेत्यतः क्रियतां दीक्षाप्रदानेन प्रसाद इति, भगवतोक्तः-"अहासुई
SHARE