SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ CROCOCCRECE अमूर्तजीवेन संबंधः वृत्ती ॥५१२॥ विशेषाव०४ | त्मना, तथाहि-यथोपकरणविकल आत्मा न किञ्चित्करोति एवमस्यापीश्वरकनुकत्वं न, एवं तुल्यता । 'अणवत्था वा, कथए ?, अथ कोट्याचार्य तस्येश्वरस्य कर्तुरन्यः शरीवान् शरीरमारप्स्यते अतस्तस्याप्यन्यस्तस्याप्यन्यः, अनवस्था, अनिष्टं चैतत्सर्वमीश्वरे । इतश्चेश्वरस्य देहा | दिकर्तृत्वमनुपपन्नं, निष्प्रयोजनकर्तृत्वे उन्मत्तकप्रख्यत्वप्रसङ्गात्, प्रयोजनमुद्दिश्य करणे तत्रैवानीश्वरत्वापत्तेः, न चानादिशुद्धस्य देह॥५१२॥ करणेच्छोपपद्यते, तस्या रागविकल्पत्वात, अनेनैव विधानेन विष्णुब्रह्मादयोऽपि प्रतिक्षेप्तव्याः, तस्मात्कर्मसद्वितीयो जीवः कर्त्तति, अन्यथा ह्यनियमः स्यादिति गाथार्थः ॥१९-२१॥ अहवेत्यादि । अथ खभावं मन्यसे-निपामकत्वेन विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय इति वेदवचनप्रामाण्यात , स्वभाव एवेत्यर्थः, उच्यते-हे गौतम! यथेदमेवं मनु तथा बहुदोषमेतदिति मैवं मंस्थाः, तथाहिस्वभावो नाम वस्तुविशेषो वा स्यादकारणता वा वस्तुधर्मो वेति त्रयी गतिः, तत्र न तावद्वस्तुविशेषः, अप्रमाणकत्वात् खरविषाणवत्, अप्रमाणकत्वेऽपि च वस्तुविशेषाभ्युपगमे कर्मणोऽपि वस्तुविशेषाभ्युपगमस्तत्र युक्तः, तुल्ययोगक्षेमत्वात्तस्य, अपिच-असौ वस्तुविशेषः सन् मृतॊ वा भवेत् अमूर्तो वा?, मूर्तश्चेत्कर्मणोऽस्य न भेदः, अन्यत्र सज्ञाभेदात, अमूर्तश्चेन्नियामको न भवति, देहकारणं वाऽमूर्तवादाकाशवत्, तथाहि-न सर्वात्मनाऽमूर्त्तान्मूर्तप्रसूतिरिति, न चाकारणता स्वभावः, कारणाभायस्याविशिष्टत्वेन युगपदशेषदेहोत्पत्तिप्रसङ्गात् , अकारगताविशेषाभ्युपगमे च तद्भावप्रसङ्गः, इतश्चासौ नाकारणता, यस्मान्नेदमाकस्मिकं वपुरादिमत्प्रतिनियताकारत्वात घटवत्, व्यतिरेकेणाभ्राभ्रवृक्षादयः, प्रतिनियताकारत्वाच्च घटवदेवोपकरणप्तमेतकर्तृकं, न च कर्मान्तरेणान्यदुपकरणं संभाव्यत इति, अथ वस्तुधमोऽसाविति तत्राप्यात्मधर्मो वा भवेद्विज्ञानवदनात्मधर्मो वा ?, आत्मधर्मत्वे न देहकारणममूर्त्तत्वादाकाशवत्, अनात्मधर्मत्वे न पुद्गलकायमतिवर्त्तते कर्मवदित्यविप्रतिपत्तिरिति युक्तिसिद्धिः, यच्च मनुषे 'पुरुष एवेद'मित्यत्र पुरुषः-आत्मा सुखदुःखादिपूर्णत्वात्, ॐ550450% C AUCLICADA
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy