________________
विशेषाव० कोव्याचार्य
वृत्ती
॥५११॥
9499400849
आह-एवं कार्मणमपि शरीरं 'भवान्तरे' अपान्तरालगतौ 'जीव(संयुक्तं' जीवसंवद्धमाचेष्टत इति काऽत्रानुपपत्तिः १, स्यादेतदेवं धर्माधर्मनिमित्तं, तौ मूतौ वा स्याताममूतौ वा ?, मूत्तौं चेद्धर्माधर्मसम्बन्धवदात्मकर्मणोरपि सम्बन्धे कः प्रद्वेषः ?, अथामूत्तौं तच्छरीरा
अमूर्तजी
| वेन संबंध: (न)नुविधायित्वेऽपि समानं, न ह्यमूर्त्तान्मूर्तप्रभव इति गाथार्थः॥२११५।। 'मुत्ते' इत्यादि । ननु च मूर्तेन कर्मगाऽमृतिमतो जीवस्य कथमनुग्रहोपघातौ स्यातां ? येन पुण्यपापयोस्त्याज्योपादेयते इति, उच्यते, यथा विज्ञानादेर्गुणस्य 'मदिरापाण'त्ति मदिरापानहत्पूरविषपिपीलिकाभक्षणादुपघातः 'ओसहादीहिन्ति सपिवचामेध्याधुपयोगाद्योऽनुग्रह इति गाथार्थः॥२११६॥'अहवे' त्यादि।
॥५१॥ अथवा नायमेकान्तो यदात्माऽमूर्त इति, अनादिकर्मसंततिपरिणामापनरूपत्वादिति गाथार्थः ॥२११७॥ तथा चाह-'संताणो' ५ इत्यादि ॥ ययोरन्योऽन्यं हेतुहेतुमद्भावस्तयोरनादिः सन्तानस्तद्यथा बीजाङ्कुरयोः पितापुत्रयोर्वा, तथा च देहकर्मणोरिति गाथार्थः॥ | ॥२११८॥ आगमद्वारेणाप्याह-'कम्मे'इत्यादि, सुगमा॥ अपिच-बोधिन् ! 'कम्मेत्यादि॥ यं 'शुद्धमेव जीवं' स्वतन्त्रमेवात्मानं मन्यसे देहादीनां 'कतार' विधातारं, ईश्वराव्यक्तकालनियतियदृच्छादिकं वेति, तत्रापि प्रतिज्ञायते-नासौ युक्तः कर्ता, कुतः? इत्याह'उवगे'त्यादि । उपकरणाभावात् दण्डादिविकलकुलालबत्, व्यतिरेके गालावेव सोपकरगः, उपकरणं च कर्मेति, अथवा न कर्मारभते एकत्वादेकपरमाणुवत्, तथा निश्चेष्टत्वादशरीरत्वादाकाशवत् निष्क्रियत्वादमूर्तत्वात्सर्वगतत्वात्, अथ पे-देहवानीश्वरोऽस्य देहादेः कति न दोषः, उच्यते, अणिमाद्यष्टविर्द्धिगुण ईश्वरस्तस्य यः स्वकीय एव देहारम्भस्तस्मिन्निष्यमाणे 'तुल्यता' सदृशता, केन ? अनुपकरणात्मना, अथान्यः शरीरीश्वरारम्भाय प्रवर्तते, उच्यते, तेन कथमनुपकरणेनात्मीयं शरीरं निर्वतितमित्येवं तुल्यता, अनुपकरणत्वादित्यादि चारणीयं, अथवैवं तुल्यता योऽसौ ईश्वरदेहारम्भाय व्याप्रियतेऽसावपि शरीरी वा न वा?, न चेत्ततस्तुल्यताऽकर्मा
6 290710X