________________
विशेषाव ० कोट्याचार्य: वृत्तौ
॥६९४॥
साधुरहमेवमन्येन साधुनाऽन्यस्मै कथिते समानरूपाय का शङ्का १, साधुरेवाहं तद्वेषधारित्वाद्भवानिव कथयत्यसौ, रूपं च दृश्यत इति कस्मान्न निश्चय आषाढ इवेति भावना || 'देव' इत्यादि । अथवा देवस्य वचनं किं सत्यं १, देवत्वनिश्चयात् किमिति वाऽस्य तपस्विनः साधुरूपधारिणो वचनं न सत्यमिति । 'न प' इत्यादि स्पष्टम् || 'जीवा' इत्यादि ॥ यदि च प्रत्यात्मसंवेद्यत्वेन संनिहिते स्वयतित्वे भवतां भ्रान्तिस्ततो जीवादीत्याद्येकवाक्यतया कण्ठया || 'तव्व' इत्यादि । स्यान्मतिः - अर्हदादिवचनान्न तेषु संशीतिः, उच्यते - ननु तद्वचनेष्विदमप्यस्ति साधुवृत्तत्वात् साधुवृत्तत्वं चालयविहारसमितत्वाद् अयं वन्द्यः ॥ 'जह वा' इत्यादि ॥ सर्वे साधवः सर्वैर्वन्दनीयाः परिणामविशुद्धहेतुत्वात् जिणगुणरहिये जिनेन्द्रप्रतिमावत् । स्याद् असिद्धोऽन्वय इत्यत आह- 'होज्ज' इत्यादि ॥ यतिरूपे तावत् साधुत्वं प्रति सन्देहः, प्रतिमायां तु जिनगुणाभावे निश्चय एव, अतः सा जिनेन्द्रप्रतिमा वन्द्या भवतां, यतिरूपे च किमिति प्रतिषेधो वन्दनस्येति विधिप्रतिषेधौ विपरीताविति गाथार्थः || २६६६ ॥ 'अस्संजए' त्यादि ॥ स्यान्मतिः - असंयतरूपे वन्द्यमाने पापानुमतिः, प्रतिमायां तु सा न, अतो न तौ विपरीताविति, उच्यते 'नणु' स्पष्टम् || 'अह' इत्यादि ॥ अथ प्रतिमायां संनिहितदेवतायामपि जिनधिया नमस्यतो न दोषो, विशुद्धान्तरात्मत्वात् 'तो' इत्यादि स्पष्टम् || 'अह' इत्यादि स्पष्टम् || अह इत्यादि, अथ तुल्यत्वात् प्रतिमामपि न वन्दध्वे देवतापरिग्रहाशङ्कया ततो न ग्राह्या आहारादयः, मा देवकृता भवेयुः प्रसङ्गश्रायम्- 'को' इत्यादि ॥ को जानाति किमिदं भक्तं आहोचित्कृमयः १, अतस्तस्मिन् तथा संदेहाश्रयणेनाज्ञानिक पक्षाश्रयणात्, किमिदं पानकं जलमाहोश्चिन्मद्यं द्रवत्वस्योभयाव्यभिचारात् इत्यादि लोकविरोधः || अभ्युपगमविरोधमाह - ' जती' त्यादि । यतिभिरपि सह संवासो वः श्रेयान, प्रमदाकुशीलशङ्कया, इत्यादि गाथाचतुष्टयं भावितार्थं प्रायः ॥ 'अह संतीत्यादि ॥ अथ लोका
"
तृतीयो
निह्नवः
।।६९४।।